________________ // 63 // // 64 // . . // 66 // // 67 // // 68 // अदृष्टाकाशकालादिसामग्रीतः समुद्भवात् / तथैव लोकसंवित्तेरन्यथा तदभावतः न चेह लौकिको मार्गः स्थितोऽस्माभिर्विचार्यते / किं त्वयं युज्यते क्वेति त्वन्नीतौ चोक्तवन्न सः मृतदेहे च चैतन्यमुपलभ्येत सर्वथा / देहधर्मादिभावेन तन्न धर्मादि नान्यथा न च लावण्यकार्कश्यश्यामत्वैर्व्यभिचारिता / मृतदेहेऽपि सद्भावादध्यक्षेणैव संगते: न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः / अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम् न प्राणादिरसौ मानं किं तद्भावेऽपि तुल्यता / तदभावादभावश्चेदात्माभावे न का प्रेमा तेन तद्भावभावित्वं न भूयो नलिकादिना / संपादितेऽप्यतसिद्धेः सोऽन्य एवेति चेन्न तत्. वायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् / अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् / ॥पर चत् न तस्यामेव संदेहात्तवायं केन नेति चेत् / तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् तद्वैलक्षण्यसंवित्तेर्मातृचैतन्यजे ह्ययम् / सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि न च संस्वेदजायेषु मात्रभावे न तद्भवेत् / प्रदीपज्ञातमप्यत्र निमित्तत्वान्न बाधकम् इत्थं न तदुपादानं युज्यते तत्कथञ्चन / अन्योपादानभावे च तदेवात्मा प्रसज्यते // 69 // // 70 // // 71 // // 72 // // 73 // // 74 // 140