________________ // 51 // // 52 // // 54 // // 55 // // 56 // न चैवं भूतसंघातमात्रं चैतन्यमिष्यते / अविशेषेण सर्वत्र तद्वत्तद्भावसंगतेः एवं सति घटादीनां व्यक्तचैतन्यभावतः / पुरुषाद्यविशेषः स्यात् स च प्रत्यक्षबाधितः अथ भिन्नस्वभावानि भूतान्येव यतस्ततः / तत्संघातेषु चैतन्यं न सर्वेष्वेतदप्यसत् स्वभावो भूतमात्रत्वे सति न्यायान्न भिद्यते / विशेषणं विना यस्मान्न तुल्यानां विशिष्टता स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः / अन्यभेदकभावे तु स एवात्मा प्रसज्यते हविर्गुडकणिक्कादिद्रव्यसंघातजान्यपि / यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् व्यक्तिमात्रत एवैषां न तु भिन्नस्वभावता / . रसवीर्यविपाकादिकार्यभेदो न विद्यते . तदात्मकत्वमात्रत्वे संस्थानादिविलक्षणा / यथेयमस्ति भूतानां तथा सापि कथं न चेत् कञभावात्तथा देशकालभेदाद्ययोगतः / न वा सिद्धमदो भूतमात्रत्वे तदसंभवात् तथा च भूतमात्रत्वे न तत्संघातभेदयोः / भेदकाभावतो भेदो युक्तः सम्यग्विचिन्त्यताम् एकस्तथा परो नेति तन्मात्रत्वे तथाविधः / यतस्तदपि नो भिन्नं ततस्तुल्यं च तत्तयोः स्यादेतद्भूतजत्वेऽपि ग्रावादीनां विचित्रता / लोकसिद्धेति सिद्धैव न सा तन्मात्रजा न तु // 57 // // 58 // // 59 // // 60 // // 61 // // 62 // 139