________________ // 39 // - // 40 // // 41 // // 42 // // 43 // - // 44 // स्वकालेऽभिन्न इत्येवं कालाभावे न संगतम् / लोकसिद्धाश्रये त्वात्मा हन्त नाश्रीयते कथम् / / नात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात् / सर्वेषां तदभावश्च चित्रकर्मविपाकतः लोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते / अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः / दिव्यदर्शनतश्चैव तच्छिष्टाव्यभिचारतः / पितृकर्मादिसिद्धेश्च हन्त नात्माप्यलौकिकः काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः / चेतना तु न तद्रूपा सा कथं तत्फलं भवेत् प्रत्येकमसती तेषु न च स्याद्रेणुतैलवत् / सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा असत्स्थूलत्वमण्वादौ घटदौ दृश्यते यथा / तथा सत्येव भूतेषु चेतनापीति. चेन्मतिः नासत्स्थूलत्वमण्वादौ तेभ्य एव तदुद्भवात् / असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः / / भवेदुत्पत्तिरेवं च तत्तवसंख्या न युज्यते तज्जननस्वभावा नेत्यत्र मानं न विद्यते / स्थूलत्वोत्पाद इष्टश्चेत्तत्सद्भावेऽप्यसौ समः न च मूर्ताणुसंघातभिन्नं स्थूलत्वमित्यदः / तेषामेव तथा भावो न्याय्यं मानाविरोधतः भेदे तददलं यस्मात् कथं सद्भावमश्नुते / तदभावेऽपि तद्भावे सदा सर्वत्र वा भवेत् / 138 // 45 // // 46 // // 47 // // 48 // // 50 //