________________ = // 27 // = // 28 // = // 29 // = // 30 // = // 31 // = // 32 // अतस्तत्रैव युक्तास्था यदि सम्यनिरूप्यते / संसारे सर्वमेवान्यद्दर्शितं दुःखकारणम् तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता / तथोपरिष्टाद्वक्ष्यामः सम्यक्शास्त्रानुसारतः इदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते / कुवादियुक्त्यपव्याख्यानिरासेनाविरोधतः पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत् / न चात्मादृष्टसद्भावं मन्यन्ते भूतवादिनः अचेतनानि भूतानि न तद्धर्मो न तत्फलम् / चेतनास्ति च यस्येयं स एवात्मेति चापरे यदीयं भूतधर्मः स्यात्प्रत्येकं तेषु सर्वदा / उपलभ्येत सत्त्वादिकठिनत्वादयो यथा. शक्तिरूपेण सा तेषु सदाऽतो नोपलभ्यते / न च तेनापि रूपेण सत्यसत्येव चेन्न तत् . शक्तिचेतनयोरैक्यं नानात्वं वाथ सर्वथा / ऐक्ये सा चेतनैवेति नानात्वेऽन्यस्य सा यतः अनभिव्यक्तिरप्यस्या न्यायंतो नोपपद्यते / आवृतिर्न यदन्येन तत्त्वसंख्याविरोधतः न चासौ तत्स्वरूपेण तेषामन्यतरेण वा / ' व्यञ्जकत्वप्रतिज्ञानान्नावृतिर्व्यञ्जकं यतः विशिष्टपरिणामाभावेऽपि ह्यत्रावृतिर्न वै / भावताप्तेस्तथा नाम व्यञ्जकत्वप्रसंगतः न चासौ भूताभिन्नो यत्ततो व्यक्तिः सदा भवेत् / भेदे त्वधिकभावेन तत्त्वसंख्या न युज्यते . 137 = // 33 // = // 34 // = // 35 // = // 36 // = // 37 // = . // 38 //