________________ // 15 // - // 16 // // 17 // // 18 // // 19 // .. // 20 // प्रकृत्यसुन्दरं ह्येवं संसारे सर्वमेव यत् / अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् मुक्त्वा धर्मं जगद्वन्द्यमकलङ्क सनातनम् / परार्थसाधकं धीरैः सेवितं शीलशालिभिः आह तत्रापि नो युक्ता यदि सम्यनिरूप्यते / धर्मस्यापि शुभो यस्माद् बन्ध एव फलं मतम् न चायसस्य बन्धस्य तथा हेममयस्य च / फले कश्चिद्विशेषोऽस्ति पारतन्त्र्याविशेषतः तस्मादधर्मवत्त्याज्यो धर्मोऽप्येवं मुमुक्षुभिः / धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वणिता यतः उच्यत एवमेवैतत् किं तु धर्मो द्विधा मतः / संज्ञानयोग एवैकस्तथान्यः पुण्यलक्षण: ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् / अभ्यासातिशयादुक्तं तद्विमुक्तेः प्रसाधकम् धर्मस्तदपि चेत्सत्यं किं न बन्धफलः स यत् / आशंसावर्जितोऽन्योऽपि किं नैव चेन्न यत्तथा भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः / सम्यमिथ्यादिरूपश्च गीतस्तन्त्रान्तरेष्वपि / तमन्तरेण तु तयोः क्षयः केन प्रसाध्यते / सदा स्यान्न कदाचिद्वा यद्यहेतुक एव सः तस्मादवश्यमेष्टव्यः कश्चिद्धेतुस्तयोः क्षये / स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः . धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं मुक्तिलक्षणम् / हेयं धर्मं तदाश्रित्य न तु संज्ञानयोगकम् . // 21 // // 22 // // 24 // // 25 // // 26 // 136