________________ = // 4 // = // 5 = // = = // 8 // दुःखं पापात्सुखं धर्मात्सर्वशास्त्रेषु संस्थितिः / न कर्त्तव्यमतः पापं कर्तव्यो धर्मसंचयः हिंसानृतादयः पञ्च तत्वाश्रद्धानमेव च / क्रोधादयश्च चत्वार इति पापस्य हेतवः विपरीतास्तु धर्मस्य एत एवोदिता बुधैः / एतेषु सततं यत्नः सम्यक्कार्यः सुखैषिणा साधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भावतः / आत्मीयग्रहमोक्षश्च धर्महेतुप्रसाधनम् उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम् / स्थाने विनय इत्येतत्साधुसेवाफलं महत् मैत्री भावयतो नित्यं शुभो भावः प्रजायते / / ततो भावोदकाज्जन्तोर्वेषाग्निरुपशाम्यति अशेषदोषजननी नि:शेषगुणघातिनी / आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्तते एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः / तत्त्वविद्भिः समाख्यातः सम्यग्धर्मस्य साधक: उपादेयश्च संसारे धर्म एवं बुधैः सदा / .. विशुद्धो मुक्तये सर्वं यतोऽन्यदुःखकारणम् अनित्यः प्रियसंयोग इहेाशोकवत्सलः / - अनित्यं यौवनं चापि कुत्सिताचरणास्पदम् अनित्या: संपदस्तीव्रक्लेशवर्गसमुद्भवाः / अनित्यं जीवितं चेह सर्वभावनिबन्धनम् पुनर्जन्म पुनर्मृत्युहीनादिस्थानसंश्रयः / . पुनः पुनश्च यदतः सुखमत्र न विद्यते 135 = // 10 // // 11 // // 12 // // 13 // // 14 //