________________ ॥हिंसाफलाष्टकम् // अविधायापि हिंसां, हिंसाफलभाजनं भवत्येकः। .. कृत्वाप्यपरो हिंसां, हिंसाफलभाजनं न स्यात् ... // 1 // एकस्याल्पा हिंसा, ददति काले तथा फलमनल्पम् / . अन्यस्य महाहिंसा, स्वल्पफला भवति परिणामे // 2 // एकस्यैव सतीव्रस्य, दिशति फलं सैव मन्दमन्यस्य। भवति सहकारिणामपि, हिंसावैचित्र्यमत्र फलकाले _ // 3 // प्रागेव फलति हिंसा 1, क्रियमाणा फलति 2 फलति च कृतार्था 3 / आरब्धा चाप्यकृता, फलति 4 हिंसानुभावेन . // 4 // एक: करोति हिंसां, भवन्ति फलभोगिनस्तथा बहवः। बहवो विदधति हिंसां, हिंसाफलभुम् भवत्येकः . // 5 // कस्यापि दिशति हिंसा, हिंसाफलमेकमेव फलकाले। अन्यस्य सैव हिंसा, दिशत्यहिंसाफलं विपुलम् हिंसाफलमपरस्य तु, ददात्यहिंसाफलं तु परिणामे / इतरस्य पुनहिंसा, दिशत्यहिंसाफलं नान्यत् // 7 // इतिविविधभङ्गगहने, सुदुस्तरे मार्गमूढदृष्टीनाम् / गुरवो भवन्तु शरणं, प्रबुद्धनयचक्रसञ्चास: // 8 // // शास्त्रवार्तासमुच्चयः // प्रथमः स्तबकः प्रणम्य परमात्मानं वक्ष्यामि हितकाम्यया / सत्त्वानामल्पबुद्धीनां शास्त्रवार्तासमुच्चयम् यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः / / जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः // 2 // 134 // 1 //