________________ मुक्तो न करोति जगन्न कर्मणा बध्यते विगतरागः / रागादियुतः सतनुर्निबध्यते कर्मणाऽवश्यम् // 137 // ज्ञानचरित्रादिगुणैः, संसिद्धाः शाश्वता: शिवाः सिद्धौ। तनुकरणकर्मरहिता, बहवस्तेषां प्रभु स्ति // 138 // कर्मजनितं प्रभुत्वं, संसारे क्षेत्रतश्च तद्भिन्नम् / प्रभुरेकस्तनुरहितः कर्ता च न विद्यते लोके // 139 // अवगाहाकृतिरूपैः, स्थैर्यस्वभावेन शाश्वते लोके / कृतकत्वमनित्यत्वं, मेर्वादीनां न सम्भवति // 140 // गुणवृद्धिहानिचित्रा, कैश्चिन्न मही कृता न लोकश्च / इति सर्वमिदं प्राहुः, त्रिष्वपि लोकेषु सर्वविदः // 141 // अद्धाचक्रमनीशं, ज्योतिश्चक्रं च जीवचनं च। . नित्यं पुनन्ति लोकानुभावकर्मानुभावाभ्याम् "मादाम्याम् // 142 // चन्द्रादित्यसमुद्रास्त्रिष्वपि लोकेषु नातिवर्त्तन्ते। . प्रकृतिप्रमाणमात्मायमित्युवाचोत्तमज्ञानम् . // 143 // सर्वाः पृथिव्यश्च समुद्रशैला:, सस्वर्गसिद्धालयमन्तरीक्षम् / अकृत्रिमः शाश्वत एष लोकः, अतो(न्तो) बहिर्यत्तदलौकिकं तु१४४ प्रकृतीश्वरौ विधानं, कालः सृष्टिविधिश्च दैवं च / इति नामघनो लोकः, स्वकर्मत: संसरत्यवशः // 145 // कर्मानुभावनिर्मितनैकाकृतिजीवजातिगहनस्य / लोकस्यास्य न पर्यवसानं नैवादिभावश्च // 146 // तस्मादनादिनिधनं व्यसनोरुभीम, जन्मारदोषदृढनेम्यतिरागतुम्बम् / घोरं स्वकर्मपवनेरितलोकचक्रं, भ्राम्यत्यनारतमिदं किमिहेश्वरेण 147 133