________________ अभ्युपगम्येदानी, जगतः सृष्टिर्वदामहे नास्ति। पुरुषार्थैः कृतकृत्यो, न करोत्याप्तो जगत् कलुषम् // 125 // अपकारः प्रेताद्यैः, कस्तस्य कृतः सुरादिभिः किं वा। संयोजिता यदेते, सुखदुःखाभ्यामहेतुभ्याम् // 126 // तुल्ये सति सामर्थ्य, किं न कृतो वित्तसंयुतो लोकः। येन कृतो बहुदुःखो, जन्मजरामृत्युपथि लोकः // 127 // . यदि तेन कृतो लोको, भूयोपि किमस्य सङ्क्षयः क्रियते / उत्पादितः किमर्थं, यदि सङ्क्षेपणीय एवासौ // 128 // कः सक्षिप्तेन गुणः, को वा सृष्टेन तस्य लोकेन। . को वा जन्मादिकृतं, दुःखं सम्प्रापितैः सत्त्वैः // 129 // भूतानुगतशरीरः, कुम्भाद्यं कुम्भकृद्यथा कृत्वा। असकृद्भिनत्ति तद्वत्, कर्ता भूतानि मिस्त्रिंशः // 130 // भवसम्भवदुःखकरं, निष्कारणवैरिणं सदा जगतः / कस्ते व्रजेच्छरण्यं, सूरिः श्रेयोऽर्थमतिपापम् // 131 // स्वकृतं जगत्क्षपयतः, तस्य न बन्धोऽस्ति बुद्धिरन्येषाम् / किं न भवति पुत्रवधे, बन्धः पितुरुग्रचित्तस्य // 132 // जगतः प्रागुत्पत्तिर्यदि कर्तुर्विग्रहात्कथं तद्वत् / / अधुना न भवति तस्यैव विग्रहात्सम्भवस्तस्य // 133 // विविधासु यथा योनिषु, सत्त्वानां साम्प्रतं समुत्पत्तिः / नित्यं तथैव सिद्धिः, प्राहुलॊकस्थितिविधिज्ञाः // 134 // एवं विचार्यमाणाः, सृष्टिविशेषाः परस्परविरुद्धाः। . हरिहरविचारतुल्या, युक्तिविहीनाः परित्याज्याः . // 135 // मुक्तो वाऽमुक्तो वाऽस्ति तत्र मूर्तोऽथवा जगत्कर्ता। . सदसद्वापि करोति हि, न युज्यते सर्वथा करणम् / // 136 // ૧ર૦