________________ यदसत्तस्योत्पत्तिस्त्रिष्वपि कालेषु निश्चितं नास्ति / खरशृङ्गमुदाहरणं, तस्मात्स्वाभाविको लोकः // 113 // मूर्ताऽमूर्तं द्रव्यं, सर्वन विनाशमेति नान्यत्वम् / यद्वेत्त्येतत्प्रायः, पर्यायविनाशि जैनानाम् // 114 // काश्यपदक्षादीनां, यदभिप्रायेण जायते लोकः / लोकाभावे तेषा-मस्तित्वं संस्थितं कुत्र ? // 115 // सर्वं धराम्बराचं, याति विनाशं यदा तदा लोकः / किं भवति बुद्धिरव्यक्तमाहितं तस्य किं रूपम् // 116 // यदमूर्तं मूर्त वा, स्वलक्षणं विद्यते स्वलक्षणतः / तद्व्यक्तं निर्दिष्टं, सर्वं सर्वोत्तमादेशैः / // 117 // द्रव्यमरूप्यम(मिहारूप्य)रूपि च, यदिहास्ति हि तत्स्वलक्षणं सर्वम् / तल्लक्षणं न यस्य तु, तद्वन्ध्यापुत्रवद् ग्राह्यम् // 118 // यद्युत्पत्तिर्न भवति, तुरगविषाणस्य खरविषाणाग्रात् / उत्पत्तिरभूतेभ्यो, ध्रुवं तथा नास्ति भूतानाम् . // 119 // तत्र व्यक्तमलिङ्गादव्यक्तादुद्भविष्यति कदाचित् / सोमादीनां तनुसम्भवोऽस्ति यदि नास्ति भूतानि // 120 // असति महाभूतगणे, तेषामेव तनुसम्भवो नास्ति / पशुपतिदिनपतिवत्सोमाण्डपितामहहरीणान्तु // 121 // बुद्धिमनोभेदानां, देहाभावे च सम्भवो नास्ति / ' ईहापोहाभावस्तदभावे सम्भवाभावः। // 122 // तदभावेऽस्ति न चिन्ता चिन्ताभावे क्रियागुणो नास्ति। कर्तृत्वमनुपपन्नं, क्रियागुणानामसम्भवतः // 123 // तेन कृतं यदि च जगत्, स कृतः केनाकृतोऽप्यबुद्धिर्वः। . विज्ञेयः सत्येवं भवप्रपञ्चोऽपि तद्वदिह / / 124 // 131