________________ हेतुरहिता भवन्ति हि, भावाः प्रतिसमयभाविनश्चित्राः / भावाढते न भाव्यं, सम्भवरहितं खपुष्पमिव // 103 // प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा / भूतानां महति कृतेऽपि हि प्रयत्ने, नाऽभाव्यं भवति न भाविनोऽस्ति नाशः // 104 // प्रतिसमयं परिणामः, प्रत्यात्मगतश्च सर्वभावानाम् / सम्भवति नेच्छयापि, स्वेच्छा क्रमवर्तिनी यस्मात् कमवात्तना यस्मात् // 105 // सत्यं पिशाचाः स्म वने वसामो, भेरी कराग्रैरपि न स्पृशामः / अयं च वादः प्रथितः पृथिव्यां, भेरी पिशाचाः किल ताडयन्ति१०६ "पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा, मदशक्तिवच्चैतन्यं जलबुबुदवज्जीवाश्चैतन्यविशिष्टःकाय:पुरुष इति" भौतिकानि शरीराणि, विषयाः करणानि च। . तथापि मन्दैरन्यस्य, कर्तृत्वमुपदिश्यते // 107 // एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः / - भद्रे ! वृकपदं ह्येतद् (पश्य), यद्वदन्ति बहुश्रुताः // 108 // तपांसि यातनाचित्राः, संयमो भोगवञ्चनाः / अग्निहोत्रादिकं कर्म, बालक्रीडेव लभ्यते // 109 // कारणानि विभिन्नानि, कार्याणि च यतः पृथक् / तस्मात्रिष्वपि कालेषु, नैव कर्माऽस्ति निश्चयः // 110 // तेषामेवानिति-मसदृशं सृष्टिवादिनामिष्टम् / एतद्युक्तिविरुद्धं, यथा तथा सम्प्रवक्ष्यामि . // 111 // सदसज्जगदुत्पत्तिः, पूर्वस्मात्कारणात् सतो नास्ति। असतो हि नास्ति कर्ता, सदसद्भयां सम्भवाभावात् // 112 // 130