________________ स्वच्छन्दतो न हि धनं न गुणो न विद्या नाप्येव धर्मचरणं न सुखं न दुःखम् / आरुह्य सारथिवशेन कृतान्तयानं, दैवं यतो नयति तेन पथा व्रजामि // 92 // यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवो(हो) पतिष्ठते / तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते // 93 // विधिविधानं नियतिः स्वभावः, कालो ग्रहा ईश्वरकर्मदैवम् / भाग्यानि कर्माणि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य / / 94 // यत्तत्पुराकृतं कर्म, न स्मरन्तीह मानवाः / तदिदं पाण्डवश्रेष्ठ !, दैवमित्यभिधीयते // 95 // कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रतां वा मृगपक्षिणां च / स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः // 96 // बदर्याः कण्टकस्तीक्ष्ण ऋजुरेकश्च कुञ्चितः / फलं च वर्तुलं तस्या वद केन विनिर्मितम् // 97 // अक्षरात् क्षरितः काल-स्तस्माद्व्यापक इष्यते / व्यापकादिप्रकृत्यन्तां, तां हि सृष्टिं प्रचक्षते // 98 // अक्षरांशस्ततो वायु-स्तस्मात्तेजस्ततो जलम् / जलात् प्रसूता पृथिवी, भूतानामेष सम्भवः // 99 // नारायणपराऽव्यक्ता-दण्डमव्यक्तसम्भवम् / / अण्डस्यान्तस्त्वमी भेदाः, सप्तद्वीपा च मेदिनी // 100 // गर्भोदकं समुद्राश्च, जरायुश्चापि पर्वताः / तस्मिन्नण्डे त्वमी लोकाः, सप्त सप्त प्रतिष्ठिताः // 101 // स्वयमेवात्मना ध्यात्वा, तदण्डमकरोद् द्विधा / ताभ्यां स शकलाभ्यां तु, दिवं भूमिं च निर्ममे // 102 // 129