________________ // 80 // आत्मा धाता विधाता च आत्मा च सुखदुःखयोः।। आत्मा स्वर्गश्च नरक-आत्मा सर्वमिदं जगत् न कर्तृत्वं न कर्माणि, लोकस्य सृजते प्रभुः / स्वकर्मफलसंयोगः, स्वभावाद्विप्रवर्तते // 81 // आत्मज्ञानस्वभावेन, स्वयं मननसम्भवात् / स्वकर्मणश्च सम्भूतेः, स्वयम्भूर्जीव उच्यते // 82 // नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः / न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः // 83 // अच्छेद्योऽयमभेद्योऽयं, निरुपाख्योऽयमुच्यते / नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः // 84 // सोऽक्षरः स च भूतात्मा, सम्प्रदायः स उच्यते। स प्राणः स परं ब्रह्म, स हंसः पुरुषश्चं सः // 85 // नान्यस्तस्मात्परो द्रष्टा, श्रोता मन्ताऽपि वा भवेत् / न कर्ता न च भोक्ताऽस्ति, वक्ता नैव च विद्यते . // 86 // चेतनोऽध्यवसायेन, कर्मणा सनिबध्यते। ततो भवस्तस्य भवे-त्तदभावात् परं पदम् / // 87 // उद्धरेद्दीनमात्मानं, नात्मानमवसादयेत्। आत्मनैवात्मनो बन्धुरात्मैव रिपुरात्मनः // 88 // सुतुष्टानि च मित्राणि, सुक्रुद्धाश्चैव शत्रवः / न हि मे तत्करिष्यन्ति, यन्न पूर्वकृतं मया // 89 // शुभाऽशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः। . स्वयमेवोपकुर्वन्ति, दुःखानि च सुखानि च . // 90 // वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि // 91 // 128