________________ // 70 // पञ्चविधमहाभूतं, नानाविधदेहनामसंस्थानम् / अव्यक्तसमुत्थानं, जगदेतत् केचिदिच्छन्ति // 68 // सर्वगतं सामान्यं, सर्वेषामादिकारणं नित्यम् / सूक्ष्ममलिङ्गमचेतन-मक्रियमेकं प्रधानाख्यम् // 69 // प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः / तस्मादपि षोडशकात्, पञ्चभ्यः पञ्चभूतानि मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त / षोडशकश्च विकारो, न प्रकृतिर्न च विकृतिः पुरुषः // 71 // गुणलक्षणो न यस्मात्, कार्यकारणलक्षणोऽपि नो यस्मात् / तस्मादन्यः पुरुषः, फलभोक्ता चेत्यकर्ता च // 72 // प्रवर्त्तमानान् प्रकृतेरिमान् गुणान्, तमोवृतत्वाद्विपरीतचेतनः / अहङ्कारोमीत्यबुधोऽपि मन्यते, तृणस्य कुब्जीकरणेऽप्यनीश्वरः।। 73 / / विज्ञप्तिमात्रमेवैत-दसमर्थाऽवभासनात् / यथा तैमिरकस्येह, कोशकीटादिदर्शनम् . क्रोधशोकमदोन्माद-कामदोषाधुपद्रुताः / / अभूतानि च पश्यन्ति, पुरतोऽवस्थितानि च // 75 // "पुरुष एवेदं सर्वं, यद्भूतं यच्च भाव्यम् / एक एव हि भूतात्मा, तदा सर्वं प्रलीयते // 76 // द्वावेव पुरुषौ लोके, क्षरश्चाऽक्षर एव च। क्षरश्च सर्वभूतानि, कूटस्थोऽक्षर उच्यते // 77 // विद्यमानेषु शास्त्रेषु, ध्रियमाणेषु वक्तृषु / आत्मानं ये न जानन्ति, ते वै आत्महता नराः // 78 // आत्मा वै देवता सर्वः, सर्वमात्मन्यवस्थितम् / आत्मा हि जनयत्येष, कर्मयोगं शरीरिणाम् // 79 // // 74 // 120