________________ भगवान् दण्डकमण्डलु-यज्ञोपवीतमृगचर्मवस्त्रसंयुक्तः / ब्रह्मा तत्रोत्पन्न-स्तेन जगन्मातरः सृष्टाः / // 57 // अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणाम् / विनता विहङ्गमानां, माता विश्वप्रकाराणाम् // 58 // कद्रूः सरीसृपाणां, सुलसा माता तु नागजातीनाम् / . सुरभिश्चतुष्पदानां, इला पुनः सर्वबीजानाम् - // 59 // प्रभवस्तासां विस्तर-मुपागतः केचिदेवमिच्छन्ति। केचिद्वदन्त्यवर्णं, सृष्टं वर्णादिभिस्तेन .. // 60 // कालः सृजति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः // 61 // प्रकृतीनां यथा राजा, रक्षार्थमिह चोद्यतः / तथा विश्वस्य विश्वात्मा, स जागर्ति महेश्वरः // 62 // अन्यो(ज्ञो)जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत्, स्वर्ग वा श्वंभ्रमेव च // 63 // सूक्ष्मोऽचिन्त्यो विकरणगणः सर्ववित् सर्वकर्ता, योगाभ्यासादमलिनधिया योगिना ध्यानगम्यः / चन्द्रार्काग्निक्षितिजलमरुद्दीक्षिताकाशमूर्तिध्येयो नित्यं शमसुखरतैरीश्वरः सिद्धिकामैः आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम् / अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः // 65 // ततः स्वयम्भूर्भगवा-नव्यक्तो व्यञ्जयन्निदम् / महाभूतादिवृत्तौजाः, प्रादुरासीत्तमोनुदः * // 66 // लोकानां स च वृद्ध्यर्थं, मुखबाहूरुपादतः। .. ब्राह्मणं क्षत्रियं वैश्य, शूद्रं च विन्यवर्त्तयत् // 67 // // 64 // 12