________________ न यः शूलं धत्ते न च युवतिमङ्के समदनां, न शक्तिं चक्रं वा न हलमुशलाद्यायुधधरम् / विनिर्मुक्तं क्लेशैः परहितविधावुद्यतधियं, शरण्यं भूतानां तमृषिमुपयातोऽस्मि शरणम् // 29 // रुद्रो रागवशात् स्त्रियं वहति यो हिंस्रो हिया वर्जितो, विष्णुः क्रूरतरः कृतघ्नचरितः स्कन्दः स्वयं ज्ञातिहा / क्रूरार्या महीषान्तकृन्नरवसामांसास्थिकामातुरा, पानेच्छुश्च विनायको जिनवरे स्वल्पोऽपि दोषोऽस्ति कः // 30 // ब्रह्मा लूनशिरा हरिदृशि सरुक् व्यालुप्तशिश्नो हरः / सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः / स्वर्नाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि // 31 // बन्धुर्न नः स भगवानरयोऽपि नान्ये, साक्षान्न दृष्टतर एकतमोऽपि चैषाम् / श्रुत्वा वचः सुचरितं च पृथग्विशेषं, वीरं गुणातिशयलोलतया श्रिताः स्मः // 32 // नाऽस्माकं सुगतः पिता न रिपवस्ती• धनं नैव तैदत्तं नैव तथा जिनेन न हृतं किञ्चित् कणादादिभिः / किन्त्वेकान्तजगद्धितः स भगवान् वीरो यतश्चामलं, वाक्यं सर्वमलोपहर्तृ च यतस्तद्भक्तिमन्तो वयम् // 33 // हितैषी यो नित्यं सततमुपकारी च जगतः, कृतं येन स्वस्थं बहुविधरुजार्तं जगदिदम् / स्फुटं यस्य ज्ञेयं करतलगतं. वेत्ति सकलम्, प्रपद्यध्वं सन्तःसुगतमसमं भक्तिमनसः. // 34 // 123