________________ कुज्ञानकुश्रुतिकुदृष्टिकुमार्गदोषान्, सम्यग् विचारयत कोऽत्र परापवादः .. // 21 // प्रत्यक्षतो न भगवानृषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः / तेषां स्वरूपगुणमागमसम्प्रभावात् ज्ञात्वा विचारयत कोऽत्र परापवादः२२ विष्णुः समुद्यतगदायुधरौद्रपाणिः शम्भुर्ललन्नरशिरोऽस्थिकपालमोली / अत्यन्तशान्तचरितातिशयस्तु वीरः, कं पूजयाम उपशान्तमशान्तरूपम्२३ दुर्योधनादिकुलनाशकरो बभूव विष्णुर्हरस्त्रिपुरनाशकरः किलासीत् / क्रौञ्चं गुहोऽपि दृढशक्तिहरं चकार वीरस्तु केवलजगद्धितसर्वकारी२४ पीड्यो ममैष तु ममैष तु रक्षणीयो, वध्यो ममैष तु न चोत्तमनीतिरेषा / निःश्रेयसाभ्युदयसौख्यहितार्थबुद्धेर्वीरस्य सन्ति रिपवो न च वञ्चनीयाः / // 25 // रागादिदोषजनकानि वचांसि विष्णोरुन्मत्तचेष्टितकराणि वचांसि शम्भोः / निःशेषदोषशमनानि मुनेस्तु सम्यग्, वन्द्यत्वमर्हति तु को नु विचारयध्वम् / // 26 // यश्चोद्यतः परवधाय घृणां विहाय, त्राणाय यश्च जगतः शरणं प्रवृत्तः / रागी च यो भवति यश्च विमुक्तरागः, पूज्यस्तयोः क इह ब्रूत चिरं विचिन्त्य शक्रं वज्रधरं बलं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं स्मशाननिलयं रुद्रं त्रिशूलायुधम् / एतान् दोषभयादितान् गतघृणान् बालान् विचित्रमयुधान्, नानाप्राणिषु चोद्यतप्रहरणान् कस्तान्नमस्येद् बुधः . // 28 // // 27 // 122