________________ एकरसमपि तु सुवाक्यं, वक्तुर्वदनाद्विनिःसृतं तद्वत् / नानारसतां गच्छति, पृथक् पृथग् भावमासाद्य // 12 // स्वं दोषं समवाप्य नेक्षति यथा सूर्योदये कौशिको, राद्धि कङ्कुटको न याति च यथा तुल्येऽपि पाके कृते। तद्वत्सर्वपदार्थभावनिकरं सम्प्राप्य जैनं मतं, बोधि पापधियो न यान्ति कुजनास्तुल्ये कथासम्भवे // 13 // हठो हठे यद्वदभिप्लुतः स्या-नौ वि बद्धा च यथा समुद्रे / / तथा परप्रत्ययमात्रदक्षो, लोकः प्रमादाम्भसि बम्भ्रमीति // 14 // यावत्परप्रत्ययकार्यबुद्धि-विवर्त्तते तावदुपायमध्ये / मनः स्वमर्थेषु विघट्टनीयं, न ह्याप्तवादा नभसः पतन्ति // 15 // यच्चिन्त्यमानं न ददाति युक्ति, प्रत्यक्षतो नाप्यनुमानतश्च / तद् बुद्धिमान् को नु भजेत लोके, गोशृङ्गतः क्षीरसमुद्भवो न 16 // ये वैनेया विनयनिपुणैस्ते क्रियन्ते विनीताः, नाऽवैनेया विनयनिपुणैः शक्यते संविनेतुम् / दाहादिभ्यः समलममलं स्यात्सुवर्णं सुवर्णं, . नायस्पिण्डो भवति कनकं छेददाहकमेण // 17 // आगमेन च युक्त्या च, योऽर्थः समभिगम्यते / परीक्ष्य हेमवद् ग्राह्यः, पक्षपाताग्रहेण किम् // 18 // मातृमोदकवद् बाला, ये गृह्णन्त्यविचारितम् / ते पश्चात्परितप्यन्ते, सुवर्णग्राहको यथा . // 19 // श्रोतव्ये च कृतौ करें, वाग् बुद्धिश्च विचारणे / यः श्रुतं न विचारेत, स कार्यं विन्दते कथम् // 20 // नैत्रेनिरीक्ष्य विषकण्टकसर्पकीटान्, सम्यक् पथा व्रजति तान् परिहत्य सर्वान् / 121