________________ . // 2 // // 4 // // 5 // ॥लोकतत्त्वनिर्णयः // प्रणिपत्यैकमनेकं, केवलरूपं जिनोत्तमं भक्त्या। भव्यजनबोधनार्थं, नृतत्त्वनिगमं प्रवक्ष्यामि भव्याऽभव्यविचारो, न हि युक्तोऽनुग्रहप्रवृत्तानाम् / कामं तथापि पूर्व, परीक्षितव्या बुधैः परिषद् वज्रमिवाऽभेद्यमनाः, परिकथने चालनीव यो रिक्तः / कलुषयति यथा महिषः, पूनकवद्दोषमादत्ते जलमन्थनवत् कथितं, बधिरस्येव हि निरर्थकं तस्य / पुरतोऽन्धस्य च नृत्तं, तस्माद्ग्रहणं तु भद्रस्य आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नाऽवबुध्यते / गावो गोपालकेनेव, कुतीर्थेनावतारिताः किं वा करोत्यनार्याणा-मुपदेष्टा सुवागपि / तथा तीक्ष्णकुठारोऽपि, दुर्दारुणि विहन्यते अप्रशान्तमतौ शास्त्र-सद्भावप्रतिपादनम् / . दोषायाऽभिनवोदीर्णे, शमनीयमिव ज्वरे उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपिं / नोपकरोति यथाऽन्धे, तथोपदेशस्तमोऽन्धानाम् एकतडागे यद्वत्, पिबति भुजङ्गः शुभं जलं गौश्च / परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् सम्यग्ज्ञानतडागे, पिबतां ज्ञानसलिलं सतामसताम् / . परिणमति सत्सु सम्यग्, मिथ्यात्वमसत्सु च तदेव एकरसमन्तरिक्षात्, पतति जलं तच्च मेदिनीं प्राप्य। . नानारसतां गच्छति, पृथक् पृथग् भाजनविशेषात् . // 7 // // 8 // // 9 // // 10 // // 11 // 120