________________ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति / तन्मात्र एव तत्त्वे भवभवविगमौ कथं युक्तौ . // 249 // परिकल्पनापि चैषा हन्त विकल्पात्मिका न सम्भवति / तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः // 250 // तस्माद्यथोक्तमेतत् त्रितयं नियमेन धीधनैः पम्भिः / भवभवविगमनिबन्धनमालोच्यं शान्तचेतोभिः // 251 // ऐदम्पर्य शुद्ध्यति यत्रासावागमः सुपरिशुद्धः / तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् // 252 // तत्रापि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः / तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् // 253 // अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः / परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे // 254 // गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य / पुंसा प्रवर्त्तितव्यं कुशले न्यायः सतामेषः .. // 255 // एते प्रवचनतः खलु समुद्धता मन्दमतिहितार्थं तु / आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः // 256 // धर्मश्रवणे यल: सततं कार्यो बहुश्रुतसमीपे / हितकाङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् // 257 //