________________ ज्योतिः परं परस्तात्तमसो यद् गीयते महामुनिभिः / आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म // 238 // नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् / स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु .: // 239 // सर्वाबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् / . निःशेषकलातीतं सदाशिवाद्यादिपदवाच्यम् // 240 // 16 - समरसः एतद् दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः / सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः // 241 // सैषाऽविद्यारहिताऽवस्था परमात्मशब्दवाच्येति / .. एषैव च विज्ञेया रागादिविवर्जिता तथ्यता // 242 // वैशेषिकगुणरहित: पुरुषोऽस्यामेव भवति तत्त्वेन / विध्यातदीपकल्पस्य हन्त जात्यन्तराप्राप्ते: // 243 // एवं पशुत्वविगमो दुःखान्तो भूतविगम इत्यादि। अन्यदपि तन्त्रसिद्धं सर्वमवस्थान्तरेऽत्रैव // 244 // परिणामिन्यात्मनि सति तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् / अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव // 245 // तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् / परिभावनीयमेतद्विद्वद्भिस्तत्त्वदृष्ट्योच्चैः // 246 // पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोधमात्रं वा / भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः? // 247 // अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः / . रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके // 248 // 118