________________ असर्वभावेन यदृच्छया वा, परानुवृत्त्या विचिकित्सया वा। ये त्वां नमस्यन्ति मुनीन्द्रचन्द्र !, तेऽप्यामरी सम्पदमाप्नुवन्ति।। 35 // यदा रागद्वेषादसुरसुररत्नापहरणे, कृतं मायावित्वं भुवनहरणासक्तमतिना / तदा पूज्यो वन्द्यो हरिरपरिमुक्तोऽध्रुवतया, विनिर्मुक्तं वीरं न नमनि जनो मोहबहुल: / / 36 // त्यक्तस्वार्थः परहितरतः सर्वदा सर्वरूपं, सर्वाकारं विविधमसमं यो विजानाति विश्वम् / ब्रह्मा विष्णुर्भवतु वरदः शङ्करो वा हरो वा, यस्याऽचिन्त्यं चरितमसमं भावतस्तं प्रपद्ये // 37 // पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु / युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः // 38 // अवश्यमेषां कतमोऽपि सर्ववित्, जगद्धितैकान्तविशालशासनः / स एव मृग्यो मतिसूक्ष्मचक्षुषा, विशेषमुक्तैः किमनर्थपण्डितैः।। 39 // यस्य निखिलाश्च दोषा, न सन्ति सर्वे गुणाश्च विद्यन्ते / ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै // 40 // लोकक्रियात्मतत्त्वे, विवदन्ते वादिनो विभिन्नार्थम्। .. अविदितपूर्वं येषां, स्याद्वादविनिश्चितं तत्त्वम् // 41 // इच्छन्ति कृत्रिमं सृष्टि-वादिनः सर्व एवमिति लोकम् / कृत्स्नं लोकं महे-श्वरादयः सादिपर्यन्तम् // 42 // नाऽनीश्वरजं केचित्, केचित्सोमाग्निसम्भवं लोकम्। ' द्रव्यादिषड्विकल्पं, जगदेतत् केचिदिच्छन्ति // 43 // द्रव्यगुणकर्मसामान्य-युक्तिविशेषात्(न्) कणाशिनस्तत्त्वम् / वैशेषिकमेताव-ज्जगदप्येतावदेतावत् 124 // 44 //