________________ // 151 // // 152 // // 153 // // 154 // . // 155 // यत्त्वभ्यासातिशयात् सात्मीभूतमिह चेष्ट्यते सद्भिः / तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् चक्रभ्रमणं दण्डात् तदभावे चैव यत् परं भवति / वचनासङ्गानुष्ठानयोस्तु तज् ज्ञापकं ज्ञेयम् अभ्युदयफले चाये निःश्रेयससाधने तथा चरमे / एतदनुष्ठानानां विज्ञेये इह.गतापाये / उपकार्यपकारिविपाकवचनधर्मोत्तरा मता शान्तिः / आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति' चरमाद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च / आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भवतः / ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे उदकपयोऽमृतकल्पं पुंसां सज्ज्ञानमेवमाख्यातम् / विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः / प्राप्नोति न संवेगं तदाऽपि यः सोऽचिकित्स्य इति . नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि / कुर्वनेतद् गुरुरपि तदधिकदोषोऽवगन्तव्यः यः शृण्वन् संवेगं गच्छति तस्याद्यमिह मतं ज्ञानम् / गुरुभक्त्यादिविधानात् कारणमेतद् द्वयस्येष्टम् // 156 // // 157 // // 158 // // 159 // // 160 //