________________ त्रैलोक्यसुन्दरं यत् मनसाऽऽपादयति तत्तु चरमायाम् / अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः // 140 // स्नानादौ कायवधों न चोपकारो जिनस्य कश्चिदपि / कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः // 141 // कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः / मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः // 142 // कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् / . तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विमलधियः // 143 // इति जिनपूजां धन्यः शृण्वन् कुर्वंस्तदोचितां नियमात् / भवविरहकारणं खलु सदनुष्ठानं द्रुतं लभते // 144 // // 145 // // 146 // 10 - पूजाफलम् सदनुष्ठानमतः खलु बीजन्यासात् प्रशान्तवाहितया / सञ्जायते नियोगात् पुंसां पुण्योदयसहायम् . तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् / तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः / शेषत्यागेन करोति यच्च तत् प्रीत्यनुष्ठानम् गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् / / क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति / तुल्यमपि कृत्यमनयोतिं स्यात् प्रीतिभक्तिगतम् वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु / वचनानुष्ठानमिदं चारित्रवतो नियोगेन // 147 // // 148 // // 149 // // 150 // ... . 100