________________ // 119 // // 120 // // 121 // // 122 // // 123 // इज्यादेनं च तस्या उपकारः कश्चिदत्र मुख्य इति / तदतत्त्वकल्पनैषा बालक्रीडासमा भवति भावरसेन्द्रात्तु ततो महोदयाज्जीवताम्रस्वरूपस्य / कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता वचनानलकियातः कर्मेन्धनदाहतो यतश्चैषा / इतिकर्तव्यतयाऽतः सफलैषाऽप्यत्र भावविधौ एषां च लोकसिद्धा शिष्टजनापेक्षयाऽखिलैवेति / प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः आवाहनादि सव्वं वायुकुमारादिगोचरं चात्र / सम्मार्जनादिसिद्ध्यै कर्त्तव्यं मन्त्रपूर्वं तु न्याससमये तु सम्यक् सिद्धानुस्मरणपूर्वकमसङ्गम् / सिद्धौ तत्स्थापनमिव कर्त्तव्यं स्थापनं मनसा बीजन्यासः सोऽयं मुक्तौ भावविनिवेशतः परमः / / सकलावञ्चकयोगप्राप्तिफलोऽभ्युदयसचिवश्च . लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन / क्षान्त्यादियुतैमैत्र्यादिसङ्गतैबृंहणीय इति / निरपाय: सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च / आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्त्तव्या / दानं च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः // 124 // // 125 // // 126 // // 127 // // 128 //