________________ बिम्बं महत्सुरूपं कनकादिमयं च यः खलु विशेषः / नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् // 108 // आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः / .. चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः // 109 // एवंविधेन यबिम्बकारणं तद्वदन्ति समयविदः / लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च // 110 // लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य / अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण // 111 // कृषिकरण इव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः / / फलमिह धान्यावाप्तिः परमं निर्वाणमिव बिम्बात् // 112 // . 8 - प्रतिष्ठा निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठाऽऽशु / दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन // 113 // व्यक्त्याख्या खल्वेका क्षेत्राख्या चापरा महाख्या च / यस्तीर्थकृद्यदा किल तस्य तदाऽऽद्येति समयविदः // 114 // ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया / सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति // 115 // भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् / स्वात्मन्येव परं यत् स्थापनमिह वचननीत्योच्चैः // 116 // बीजमिदं परमं यत् परमाया एव समरसापत्तेः / . स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया // 117 // मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु / . स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन // 118 // 106