________________ 7 - जिनबिम्बनिर्माणम् जिनभवने तबिम्बं. कारयितव्यं द्रुतं तु बुद्धिमता / साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद् भवति // 97 // जिनबिम्बकारणविधिः काले पूजापुरस्सरं कर्तुः / विभवोचितमूल्यार्पणमनघस्य शुभेन भावेन // 98 // नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्यमिति / काले च दानमुचितं शुभभावेनैव विधिपूर्वम् // 99 // चित्तविनाशो नैवं प्रायः सञ्जायते द्वयोरपि हि / अस्मिन् व्यतिकर एष प्रतिषिद्धो धर्मतत्त्वज्ञैः // 100 // एष द्वयोरपि महान् विशिष्टकार्यप्रसाधकत्वेन / सम्बन्ध इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति / // 101 // यावन्तः परितोषाः कारयितुस्तत्समुद्भवाः केचित् / तबिम्बकारणानीह तस्य तावन्ति तत्त्वेन . // 102 // अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया / सर्वापायनिमित्तं ह्येषा पापा न कर्त्तव्या // 103 // अधिकगुणस्थैनियमात् कारयितव्यं स्वदौर्हदैर्युक्तम् / न्यायाजितवित्तेन तु जिनबिम्बं भावशुद्धन // 104 // अत्रावस्थात्रयगामिनो बुधैौर्हदाः समाख्याताः / बालाघाश्चैता यत्तत्क्रीडनकादि देयमिति // 105 / / यद्यस्य सत्कमनुचितमिह वित्ते तस्य तज्जमिह पुण्यम् / भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् ... // 106 // मन्त्रन्यासश्च तथा प्रणवनमःपूर्वकं च तन्नाम / मन्त्रः परमो ज्ञेयो मननत्राणे ह्यतो नियमात् . // 107 // 105