________________ दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् / उचितक्रयेण यत्स्यादानीतं चैव विधिना तु .. // 87 // दार्वपि च शुद्धमिह यत्नानीतं देवताधुपवनादेः / प्रगुणं सारवदभिनवमुच्चैर्ग्रन्थ्यादिरहितं च // 88 // सर्वत्र शकुनपूर्वं ग्रहणादावत्र वर्तितव्यमिति / पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः // 89 // भृतका अपि कर्त्तव्या य इह विशिष्टा:स्वभावतः केचित् / / यूयमपि गोष्ठिका इह वचनेन सुखं तु ते स्थाप्याः ... // 9 // अतिसन्धानं चैषां कर्त्तव्यं न खलु धर्ममित्राणाम् / न व्याजादिह धर्मो भवति तु शुद्धाशयादेव . // 91 // देवोद्देशेनैतद् गृहिणां कर्तव्यमित्यलं शुद्धः / अनिदानः खलु भावः स्वाशय इति गीयते तज्ज्ञैः // 92 // प्रतिदिवसमस्य वृद्धिः कृताकृतप्रत्युपेक्षणविधानात् / एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये // 93 // एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् / / अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति // 94 // देयं तु न साधुभ्यस्तिष्ठन्ति यथा. च ते तथा कार्यम् / अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम् // 95 // यतनातो न च हिंसा यस्मादेषैव तन्निवृत्तिफला / तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति // 96 // 104