________________ सिद्धेश्चोत्तरकाएँ विनियोगोऽवन्ध्यमेतदेतस्मिन् / सत्यन्वयसम्पत्त्या सुन्दरमिति तत् परं यावत् . // 43 // आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः / भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा // 44 // अस्माच्च सानुबन्धाच्छुद्ध्यन्तोऽवाप्यते द्रुतं क्रमशः / एतदिह धर्मतत्त्वं परमो योगो विमुक्तिरसः // 45 // अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम् / त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेवं // 46 // एवं त्वपूर्वकरणात् सम्यक्त्वामृतरसज्ञ इह जीवः / ... चिरकालासेवितमपि न जातु बहु मन्यते पापम् . // 47 // यद्यपि कर्मनियोगात् करोति तत् तदपि भावशून्यमलम् / अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति - // 48 // // 49 // // 50 // 4 - धर्मेच्छुलिगानि सिद्धस्य चास्य सम्यग् लिङ्गान्येतानि धर्मतत्त्वस्य / विहितानि तत्त्वविद्भिः सुखावबोधाय भव्यानाम् औदार्यं दाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः / लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च औदार्य कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् / गुरुदीनादिष्वौचित्त्यवृत्ति कार्ये तदत्यन्तम् दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाशयो ज्ञेयः। . गाम्भीर्यधैर्यसचिवो मात्सर्यविघातकृत् परमः पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा संततम् / ' पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः // 51 // // 52 // // 53 // 100