________________ // 54 // // 55 // // 56 // // 57 // // 58 // निर्मलबोधोऽप्येवं शुश्रूषाभावसम्भवो ज्ञेयः / शमगर्भशास्त्रयोगात् श्रुतचिन्ताभावनासारः युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् / धर्मप्रशंसनादेर्बीजाधानादिभावेन आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् / तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः / तन्नास्य विषयतृष्णा प्रभवत्युच्चैर्न दृष्टिसम्मोहः / अरुचिर्न धर्मपथ्ये न च पापा क्रोधकण्डूतिः गम्यागम्यविभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः / विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः / भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः धर्मश्रवणेऽवज्ञा तत्त्वरसास्वादविमुखता चैव / .. धार्मिकसत्त्वासक्तिश्च धर्मपथ्येऽरुचेलिङ्गम् सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत् ‘स्फुरणम् / अविचार्य कार्यतत्त्वं तच्चिद्रं क्रोधकण्डूतेः एते पापविकारा न प्रभवन्त्यस्य धीमतः सततम् / धर्मामृतप्रभावाद् भवन्ति मैत्र्यादयश्च गुणाः परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा / परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा एतज्जिनप्रणीतं लिङ्गं खलु धर्मसिद्धिमज्जन्तोः / पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन // 59 // // 60 // // 61 // // 62 // // 63 // // 64 // वा.