________________ // 203 // // 204 // // 205 // ततो महानुभावत्वात्तेषामेवेह युक्तिमत् / जगद्गुरुत्वमखिलं सर्वं हि महतां महत् एवमाहेह सूत्रार्थं न्यायतोऽनवधारयन् / कश्चिन्मोहात्ततस्तस्य न्यायलेशोऽत्र दर्श्यते महादानं हि संख्यावदर्थ्यभावाज्जगद्गुरोः / सिद्धं वरवरिकातस्तस्याः सूत्रे विधानतः तया सह कथं संख्या युज्यते व्यभिचारतः / तस्माद्यथोदितार्थं तु संख्याग्रहणमिष्यताम् महानुभावताप्येषा तद्भावेन यदर्थिनः / विशिष्टसुखयुक्तत्वात्सन्ति प्रायेण देहिनः धर्मोद्यताश्च तद्योगात्तदा ते तत्त्वदर्शिनः / महन्महत्त्वमस्यैवमयमेव जगद्गुरुः . / 206 // // 207 // // 208 // 1 अपतत . // तीर्थकृहानाष्टकम् // 27 // कश्चिदाहास्य दानेन क इवार्थः प्रसिध्यति / मोक्षगामी ध्रुवं ह्येष यतस्तेनैव जन्मना // 209 // उच्यते कल्प एवास्य तीर्थकृन्नामकर्मणः / उदयात्सर्वसत्त्वानां हित एव प्रवर्तते // 210 // धर्माङ्गख्यापनार्थं च दानस्यापि महामतिः / अवस्थौचित्ययोगेन सर्वस्यैवानुकम्पया // 211 // शुभाशयकरं ह्येतदाग्रहच्छेदकारि च / सदभ्युदयसाराङ्गमनुकम्पाप्रसूति च // 212 // . ज्ञापकं चात्र भगवान्निष्क्रान्तोऽपि द्विजन्मने / देवदूष्यं ददद्धीमाननुकम्पाविशेषतः // 213 // 1