________________ 11. श्रीश्रेयांसजिनस्तुतिः (........ छन्दसा) सकलसिद्धिविधानविदग्धं, दशमतोऽग्रिममीशममुग्धम्। अमितकामितदानसुरहू, श्रयत शोषितलोभमितह्नम्॥१॥ जिनवराः प्रदिशन्तु सतां शं, न लभते मरमर्द्विशतां शम्। हरिहराद्यपरः सुरसार्थः, प्रभुतया धृतयाऽपि कृतार्थः॥२॥ जिनपतेर्वचनं भविकानां, भवतु लब्धमहाभविकानाम्। दुरितसन्ततिसंहरणाय, प्रबलसंसृतिसंहरणाय॥ 3 // अखिलमङ्गलमूलविधात्री, गुरुतरोच्चलचिन्तितदात्री। विकटसङ्कटवल्लिकृपाणी, जिनमते जयताद्भुवि वाणी॥४॥ 12. श्रीवासुपूज्यजिनस्तुतिः (तामरसच्छन्दः) नमत सुरासुरसेवितपादं, वदनविभाजितशीतलपादम्। महिषधरं गतखेदविषाद, जलधरगर्जिगभीरनिनादम्॥१॥ सकलजिनेशगणं विनुवेऽहं, ह्रतकनकद्युतिसत्तमदेहम्। चरणमाहृदि सुन्दरहारं, पदयुगलप्रणते हितकारम्॥२॥ जिनवनवाग्विभवो मम सातं, दिशतु महोदयपत्तनजातम् / नयगमभङ्गभरप्रतिपूर्णः, कठिनपुराणतमस्कृतचूर्णः॥ 3 // जिनपतिपादपयोरुहभक्तः, श्रितजिनशासनभासनमरक्तः। करतु कुमारसुरः शिवमिष्टं, न भवति यत्र कदाचन कष्टम्॥४॥ *** 13. श्रीविमलनाथस्तुतिः (प्रहर्षणी छन्दः) देवेन्द्रप्रणतपदं जिनं नमामः, चित्तं तच्चरणयुगे वयं रमामः। क्रोडाइँ निखिलसमीहितार्थकारं, नैर्मल्यं सृजतु कृतामरोपहारम्॥१॥ सर्वज्ञाः सकलगुणाभिरामदेहा, आदित्यद्युतिभरदीप्तधामगेहाः। मुक्तिश्रीरमणकलाभिलाषवन्तः, कुर्युः शं हृदयभवं शिवं ब्रुवन्तः॥२॥ सिद्धान्तो जिनवदना तीर्यमाणः, साध्वोधैः श्रवणपुटावधार्यमाणः। भव्यानां शिवसदनाभिलाषुकानां, श्रेयोऽर्थं भवतु भयक्षयोत्सुकानाम्॥३॥ विघ्नौघं जिनपदसेवके हरन्ती, सर्वाधिप्रशमसुखं जने करन्ती। सा भूयान्मम सुखमङ्गलादिकी, सर्वापत्प्रधनभयामयादिही // 4 // *** लेख संग्रह