________________ 3. श्रीशम्भवजिनस्तुतिः (नारीछन्दसा) तीर्थेशस्तार्तीयः। वृद्धिं वः, प्रादुष्येत्॥ 1 // येऽर्हन्तस्ते पापं / भक्तानां, छिन्द्यासुः॥२॥ सार्वीयः, सिद्धान्तः / मच्चित्तं, पोपूयात् // 3 // . . सुत्रास्यः, साधूनां / विघ्नौघं, लोलुयात्॥ 4 // . *** 4. श्रीअभिनन्दनजिनस्तुतिः (सुमतिच्छन्दसा) प्लवगावं, गलिताङ्कम्। हतजालं, भजतालम्॥१॥ जिनवन्द, कतभन्दम। कनकाच्छं. ददताच्छम॥२॥ जिनवाक्यं, जितशाक्यम्। भज भव्यं, मुनिनव्यम्॥३॥ श्रुतदेवी, पदसेवी। अघही, सुखक/॥ 4 // 5. श्रीसुमतिजिनस्तुतिः (अभिमुखीछन्दसा) सुमतिजिनं, गतवृजिनम्। श्रय मुनिपं, चिदवनिपम्॥१॥ जिननिकरं, जनसुकरम्। कृतविभवं,भज विभवम्॥२॥ जिनवचनं, वररचनम्। शिवसुखदं, नयतु पदम्॥३॥ अमलतरा, कमलकरा। वितरतु कं, कजजतुकम्॥४॥ 6. श्रीपद्मप्रभजिनस्तुतिः (रमणाछन्दसा) धरभूपभवं, वररूपरवम्। कृतकामजयं, श्रथधाममयम्॥१॥ जिनराजगणं, नतभूरमणम्। शमताशरणं, कुरुताच्छरणम्॥२॥ भगवत्समयः, शमशूकमयः / भवतान्तिहरः, शिवशान्तिकरः // 3 // सुमतः कुसुमः, सुरसालसमः / जनतेहितशं, तनुतादनिशम्॥ 4 // *** 7. श्रीसुपार्श्वजिनस्तुतिः (मधुनामाछन्दः) कनकसमधनः, करतु शमधनः / नतनरसुमनाः, शिवममलमनाः॥१॥ सकलजिनपतीन्, विमलनरपतीन्। भजत मुनिजना! विगलितवृजिनाः॥२॥ गणधरगदितं, यतिततिविदितम्। शमरससहितं, कुरु हृदि सहितम्॥३॥ . जयति भगवती, विमलगुणवती। शुचिरुचिमवती, शशिकरसुदती॥ 4 // 70 लेख संग्रह