________________ श्रीमृगाधिनायका स नोपविष्टपुष्टवाणि-धर्ममर्मदेशनेन बोधिताङ्गशिष्ट पृष्टदेशभासमानभावितानदेवदुन्दुभी-द्धनादपूज्यपादपार्श्वदेवनन्द॥ 23 // अशोकपुष्पमञ्जरी॥ (24) नरपतिततिनिषेवितपादपीठाग्रसि-द्धार्थभूपालवंशाब्दिराकानिशानायकः, प्रणितभविकमहोदयमेदुरानन्दसं-भोगभङ्गीभुजङ्गीभवद्भाविभूनायकः। मदनदहनघनोत्कलिकाकुलं मामकी-नं मनः शुद्धसम्वेगरङ्गामृतासारतो, रचयतु शमरमारससुन्दरं वर्द्धमानां, जिनो जायमानासमानोल्लसन्मङ्गलः॥ 24 // उत्कलिका॥ (25) कर्तुः प्रशस्तिः। इत्येवं सर्वदेवा सुरनरबलिराजाधिराजैः सुजातिव्यक्तिच्छन्दोविशेषैरहमहमिकया नव्यनव्यैः सुकाव्यैः। नित्यं संस्तूयमाना दलितकलिमला नाभिराजाङ्गजाद्याः, श्रीवीरान्ता जिनेन्द्रा भुवनहितकृते माङ्गलक्याय सन्तु॥२॥ स्रग्धरा // इति प्रवर्द्धमानाक्षरविभिन्नजातिव्यक्ति छन्दादिशेषरचितं चतुर्विंशति जिनस्तवनम्॥ [अनुसंधान अंक 25] 000 लेख संग्रह