________________ गाङ्गेयगात्रनृतमस्तृणसत्रदात्रं त्वान्नाममात्र वसतो गुणरत्नपात्रम्। मिथ्यात्वयतिविलयं मम हद्विलीनं, सूर्यांशुभिन्नमिवशार्वरमन्धकारम् / / 7 / / नेत्रामृते भवति भाग्यबलेन दृष्टे, हर्षप्रकर्षवशतस्तव भक्तिभाजाम्। * वक्षःस्थलस्थित उतेक्षणतस्चूतोसौ मुक्ताफलद्युतिमुपैति ननूद बिन्दुः।। 8 / / श्रीनाभिनन्दन! तवानन लोकनेन, नित्यं भवन्ति नयनानि विकस्वराणि। भव्यात्मनामिव दिवाकरदर्शनेन, पद्माकरेषु जलजानि विकाशभाञ्जि / / 9 / / त्वत्पादपद्मशरणानुगतान्नरांस्त्वं, संसारसिन्धुपतिपारगतन्किरोषि। नि:पाप! पारगतयच्च स एव धन्यो, भूत्याश्रितं य इह नात्मसमं करोति / / 10 / / युक्तं तदुक्त वचनानि निशम्य सम्यक्, नो रोचते किमपि देव! कुदेववाक्यम्। पीयूषपानमसमानमहो विधाय, क्षारं जलं जलनिधेरसितुंक्च इच्छेत् / / 11 / / शंभू स्वकीय ललनाकलिताङ्गभागो, विष्णुर्गदासहित पाणिरितीव देव। प्रद्वेषरागरहितोषि जिन ! त्वमेव, यत्ते समानमपरं न हि रूपमस्ति / / 12 / / तेजस्विनं जिन! 'सदेह भवन्तमेव, मन्येस्तमेति सवितापि दिवावसानम्। दीपोऽपि वर्त्तिविरहे विधुमण्डलं च, यद्वासरे भवति पाण्डुपलाशकल्पम् / / 13 / / ये व्याप्तुवन्ति जगदीश्वर! विश्व! विश्वमत्राञ्जनानपि सृजंति तरां चिलोक्याम्। . त्वां भास्करं जिन! विना तमसः समूहान् कस्तान्निवारयति संचरतो यथेष्टम्।। 14 / / सिंहासनं विमलहेममये विरेजे, मध्यस्थित-त्रिजदीशश्वरमूर्तिरम्यम्। नोद्योतनार्थमुपरिस्थित सूर्यबिंब, किं मंदरादिशिखरं चलितं कदाचित् / / 15 / / दोषाकरो न सकरो न कलंकयुक्तो, नास्तं गतो न सतमानसविग्रहो न। स्वामिन्विधुर्जगति नाभिनरेन्द्रवंश-दीपोपरस्त्वमसि नाथ! जगत्प्रकाशः।। 16 / / नित्योदयस्त्रिजगतीस्थ तमोपहारी, भव्यात्मनां वदनकैरवबोधकारी। मिथ्यात्वमेघपटलैंर्न मावृतोयत्सूर्यातिशयि महिमासि मुनीन्द्र ! लोके / / 17 / / लावण्य-पुण्य-सुवरेण्य-सुधानिधानं, प्रह्लादकं जनविलोचनकैरवाणाम्। वक्त्रं विभोत व विभाति विभातिरेकं विद्योतयज्जगदपूर्वशशाङ्कबिम्बम्।। 18 / / ध्यातस्त्वमेव यदि देव! मनोभिलाष-पूर्णीकरः किमपरैर्विविधैरुपायैः। नि:पद्यते यदि च भौमजलेन धान्यं, कार्यं कियजलधरैर्जलभारननैः।। 19 / / माहात्म्यमस्ति यदनंतगुणाभिरामं, सर्वज्ञ ते हरिहरादिषु तल्लवो न / चिन्तामणौ हि भवतीह यथा प्रभावो, नैवं तु काचशकले किरणाकुलेपि।।२०।। तद्देव! देहि मम दर्शनमात्मनस्त्व! मत्यद्भुतं नृनयनामृतयत्र दृष्टे / स्वामिनिहापि परमेश्वर! मेन्यदेव! कश्चिन्मनो हरति नाथ भवान्तरेपि।। 21 / / ज्ञानस्य शिष्टतरदृष्टसमस्त लोका-लोकस्य शीघ्र हतसंतमस्य शश्वत्। दाता त्वमेव भुवि देव! हि-तं, प्राच्येव दिग्जनयति स्फरदंशुजालम् / / 22 / / सिंहासनस्थ भवदुक्त चतुर्विधात्म-धर्मादृते त्रिजगदीश! युगादिदेव। सद्दानशीलतपनिर्मल भावनाख्यान् नान्य:शि शिवपदस्य मुनीन्द्र पन्थाः।। 23 / / लेख संग्रह 349