________________ तस्यात्मजः सूर इवोग्रतेजाः, ख्यातः क्षितास्मापतिमौलिरत्नः। श्रीसूरदेवोऽजनि राजराज, राजीव-राजीवसुहृत्समानः॥३॥ श्रीमड्डाहलदेशमौलिमुकुटश्रीसूरदेवाभिध, ख्यातुं कः प्रभुरस्ति दानमहिमप्रोद्दामलीलायितुम् ( ? लीलां तव)। सूरोऽपि प्रकटं दधौ दशशती चन्द्रः कराणां कलाकौशल्यं बिभरांबभूव नितरां तहानलिप्साशया॥४॥ पृथ्वीराजनृपाज्ञया यवनपात् यो गर्जनाद्वार्षिकं, दण्डं लातुमितो जघान सुभटानेकः चतुः सप्ततिः। सोंकोऽद्यापि च लेखवस्तुषु जनै रक्षार्थमालिख्यते, नाम्ना तस्य विराजते गुणनिधिः श्रीसूरवंशो भुवि॥५॥ तदङ्गजन्मा क्षितिपालभाल-विभूषण श्रीतिलकायमानः। निशम्य युद्धं जनकस्य वेगाद, दधाव भूपः खलु श्यामलेन्द्रः॥६॥ .. असितनिशितशस्त्रव्रातजाताभिघातः, प्रतिहतकरकुम्भो ध्वस्तदृप्तारिवर्गः। पृथुकप्रकृतिलोकस्त्रैणवर्गान् विहाय, प्रबलसबलदैत्यान् माषपेषं पिपेष॥ 7 // तदङ्गजो मोल्लण नामधेयः, श्रीधर्मघोषाभिघसूरिवाक्यात्। श्रीजैनधर्मं समवाप्य सम्यक, सश्रावकत्वव्रतमाबभार॥८॥ : तस्याऽभवद्वीर उदारचेताः, श्रीवामदेवो नृपक्लृप्तसेवः। शाकम्भरी साल्हणराज मुख्यः, भूपत्रयी पालित मन्त्रिमुद्रः॥९॥ तस्याऽभवच्छ्रीनिधिरुस्तबाहः, प्रत्यर्थिकारश्करहव्यवाहः / - तदङ्गभूरासधरः प्रतीतो, धनेश्वरस्तत्पद मालमार॥१०॥ ततोऽभवच्चम्पकनामधेयः, श्रीराजसिंहः किल तस्य सूनुः / गणाधरी तस्य बभूव पुत्रो, गुणन्धरस्तत्कुलसिन्धुचन्द्रः॥११॥ लालख्य नामाऽथ ततो बभूव, सूनोऽभवत्तस्य च देवराजः। हालाभिधस्तत्कुलवंशरत्नं, तोलाभिधस्तस्य पवित्रपुत्रः॥१२॥ ख्यातः क्षितौ यो भुवनैकमल्लः, ततोऽभवद् गोशल नामधेयः। शत्रुञ्जये श्रीगिरि-रैवते च, यात्रां व्यधासीद् विधिवद्विधिज्ञः॥१३॥ तत्पुत्ररत्न शिवराजनामा, संघाधिपो भूपतिदत्तमानः। शाकम्भरी - श्रीअजमेरुदुर्गे, विश्रापयामास सुरूपमुद्राम्॥१४॥ पञ्चनन्दमनुमीतवत्सरे (1495), षण्णवाब्धिशशिवत्सरे (1496) तथा। दीनदुःस्थितजनो (द्) धरणाय, सत्रमत्र विदधे शिवराजः॥ 15 // - तस्याऽभवद् भूरिकलाप्रवीणः, सद्धर्भकर्मानुकृतौ धुरीणः। सौन्दर्यशोभायिन देवराजः, पुत्र:पवित्रो भुवि हेमराजः॥१६॥ लेख संग्रह 301