________________ त्रिंशत् . तावन्तश्च तत्र वर्णा इति। लघ्वक्षरैः लघुवर्णे हीना मात्रा इत्यनुवर्तते। ततश्च लघ्वक्षरापनयने यच्छेषमवशिष्टं मात्रापरिमाणं तदर्द्ध प्रतीत एव। किमित्याह-गुरुवर्णा भवन्तीति गम्यते। यथा क्वचिद् गाथायां त्रीणि लघुन्यक्षराणि मात्रापरिमाणात् तदुपनयने चतुःपञ्चाशत् तस्या अप्यर्द्ध सप्तविंशतिस्तावन्तश्च गुरुवर्णाः। एवं गीत्युपगीत्योरपि स्वमात्रापरिमाणानुसारेण भावन कार्या इति गाथार्थः।।१८।।। साम्प्रतं किञ्चित् सामान्यगाथालक्षणविलक्षणत्वेन पृथगेव स्कन्धकगाथायां मात्रापरिमाणं वर्णस्थानपरिमाणं चाह चउसट्ठी सत्ता वण्णा चउतीसाइ जा दुसहीया सद्धी। लहुयद्धाए त्तीस जुया वण्ण खंधियए सा य विण्णेया।।१९।। - चतुःषष्टिमात्रा स्कन्धके स्कन्धकच्छन्दसि भवन्तीति गम्यते। अष्टानां चतुर्मात्राणां अंशकानां प्रत्येकमर्द्धद्वयेपि तावद् वर्णस्थानानि चतुस्त्रिंशदादीनि पर्यवसानमाह- [१०बी] यावद् द्विसहिता षष्टि पर्यन्तानीत्यर्थः। यतोऽत्रोत्कृष्टतस्त्रिंशत्-गुरूणि तेषु चार्द्धद्वयेपि षष्ठस्य पृथग् गुरुमध्य ते लघुचतुष्टयसम्भवात् / जघन्यतश्चतुस्त्रिंशत्वर्णा एकमेकैकगुरुवर्णहानौ लघुद्वयवृद्धौ च, यावद् द्वाषष्टौ वर्णेषु द्वौ गुरु षष्टिश्च लघव इत्येकोनत्रिंशद्बलस्थानानि चतुस्त्रिंशतो द्वाषष्टिस्थाने एतत्। संख्यापूरणे। लघ्वर्धा लघ्वर्द्धपरिमाणा द्वात्रिंशद्युता वर्णाः स्कन्धके सदा स्कन्धकलक्षणस्याविसम्वादित्वात् अविचलत्वेन सर्वकालं विज्ञेया-ज्ञातव्या। इदमुक्तं भवति। लघुभ्यो वर्णपरिमाणो नयने इदं करणं यावन्ति लघून्यक्षराणि तत्र दृश्यन्ते तेषामढ़ द्वात्रिंशद्युतं वर्णपरिमाणं / यथोत्कर्षतः षष्टिप्रमाणेषु / लंघुष्वर्कीकृतेषु त्रिंशति द्वाविंशति क्षेपे च द्वाषष्टिवर्णा भवन्तीति गाथार्थः।।१९।। इदानीमंशकविकल्पवशात् गाथोद्गीतिस्कन्धकगीत्युपगीति-चपलानां प्रत्येक प्रस्तारप्रमाणं विविक्षुः * ग्राथात्रयमाह तेरस अंस वियप्पा जह संभवमिह परोप्परं गुणिया। [११ए] वीस सहस्सा एगूण वीसलक्खद्धकोडीउ।।२०।। - इह गाथोद्गीत्योः त्रयोदश अंशकाश्चतुर्मात्रास्तत्र गाथायां प्रथमार्द्ध सप्त द्वितीया? तु षष्टिपर्यायेण चोद्गीतौ तत्र प्रथमतृतीये पञ्चमसप्तमाः प्रथमार्द्ध मध्यगुरुकल्परहिताः प्रत्येकं चतुर्विकल्पाः। द्वितीयाद्धेऽपि एवमेव / इत्येवमसौ द्वितीय-चतुर्थी चार्द्धद्वयेपि प्रत्येकं पञ्च विकल्पा चैवमेते सर्वे चत्वारः षष्ठाङ्कश्च गाथायां प्रथमे अर्द्ध उद्गीतौ च द्वितीये द्वे विकल्पाः, ततो अष्टौ चतुष्काः, चत्वारः पञ्च द्विकं चेति / तत्र चतुष्टाङ्कस्य परस्परगुणने पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशच्च, पञ्चकचतुष्कस्य तु षट्शतानि पञ्चविंशत्यधिकानि परस्परगुणने भवन्ति / ततोऽनेन राशिना पूर्वस्मिन्नासौ गुणितो अन्यतरार्द्ध षष्ठांशस्य द्विविकल्पत्वेन पुनरपि द्विगुणित इदं प्रस्तारप्रमाणं भवति / यथा विंशतिसहस्राणि एकोनविंशतिर्लक्षा अष्टौ कोटय इति, अत एवाह पत्थारमाणमेयं गाहु ग्गीई ण खंघए वि गुण। दुगुणं दुगुणं गीई ए [११बी ] अट्ठयं होई / / 21 / / प्रस्तारमानं रचनापरिमाणमेतदनन्तरोक्तमङ्कतोपि 8,19,20,000 कयोरित्याह-गाथोद्गीत्यो : स्कन्धकेऽष्टगुणं प्रस्तारमानमेतदिति वर्तते। यतोऽत्र द्वितीयार्द्धपि षष्ठोंऽशौ द्विविकल्पो दलद्वये अष्टमौ च, एवं च यो द्विकास्ते च परस्परगुणिता अष्टावेतद्गुणश्च पूर्वराशिः स्कन्धकप्रमाणं भवति / तच्चैतत् षष्टिसहस्राणि त्रिपञ्चाशल्लक्षाः पञ्चषष्टिकोटय इति / अङ्कतोऽपि 65,53,60,000 / यथोक्तम् पणसट्ठीकोडीउ लक्खा तेवण्ण सट्ठिसहस्साइं। पत्थारमाणमेयं खंधयगाहाए बिंति मुणी।। लेख संग्रह 277