________________ सत्ता वण्णा मत्ता गाहा तीसइ जाव पणपण्णा। वण्णा एक्कगवुड्डा हवंति छव्वीसइं ठाणा।।१६।। सप्तपञ्चाशन्मात्रा यस्यां स तथा गाथा भवतीति गम्यते। सप्तपञ्चाशतामात्राभिः सामान्यतो गाथा निगद्यते इत्यर्थः। त्रिंशतो वर्णेभ्यश्चारभ्य यावत् पञ्चपञ्चाशत् पञ्चभिरधिका पञ्चाशद् यावत्। किमित्याहवर्णा अकारादयः। किं रूपाः? एकैकवृद्धा एकोत्तरस्या वृद्ध्या / वृद्धिमुपगता भवन्ति-वर्तते / किं ययख्या(?) इत्याह- षड्विंशतिस्थानाः-षड्भिरधिका विशंतिस्थानानि संख्याभेदा येषां ते तथा। इदमुक्तं भवति, यदा द्वयो सर्वेपि गुरवो वर्णाः प्रयुज्यन्ते तदापि प्रथमार्द्ध षष्ठस्य मध्यगुरुत्वेन, तल्लघुद्वयसम्भवात्। द्वितीया॰ च षष्ठस्य एकलघुमात्रत्वात् त्रयो [८बी] लघुवर्णा गुरवश्च सप्तविंशतिवर्णा, एवं जघन्यतः त्रिंशद्वर्णाः, प्रतिगुरुमात्रादय भावेन चतुःपञ्चाशतिमात्रासु लघुमात्रात्रयमीलने सप्तपञ्चाशन्मात्रा गाथायां भवन्ति / षड्विंशतौ गुरुषु पञ्चसु लघुष्वेकत्रिंशद्वर्णा एव सेकै कस्य हान्या लघुद्वयस्य च वृद्ध्या द्वात्रिंशदादयो यावदर्द्धद्वयान्तितयोर्द्धयोः गुरुवर्णयोस्त्रिपञ्चाशति च लघुषु पञ्चपञ्चाशत् / गाथायामुत्कृष्टतो वर्णाः षड्विंशतिश्च वर्णस्थानानि सप्तपञ्चाशत्वमात्रा सर्वत्र भवतीति गाथार्थः / / 16 / / / लघुभ्य उक्तवर्णस्थाना वर्णस्थानेभ्यश्च लघुवर्णानामानयनाय करणमाह तियहीणलहूणद्धं तीसजुयं होइ वण्णपरिमाणं। तीसाहियंति दुगुणं तिज्जु य लहु यक्खरपमाणं / / 17 / / / / त्रिकेण हीनास्ते च ते लघवश्च त्रिकहीना लघवस्तेषामर्द्ध दलं, किमित्याह-भवति-वर्तते वर्णपरिमाणं वर्णसंख्या। किंविशिष्टां? त्रिंशद् न्यून (?युतं) त्रिंशतासमेतं / किमुक्तं भवति? सर्वजघन्येनापि गाथायां त्रयो लघवस्तेषु चापनीते तेषु अनवशिष्टत्वेन दलाभावंस्तत्र च शून्यस्थाने [९ए] त्रिंशन्निक्षिप्यत / एवं त्रिषु लघुषु त एव त्रिंशद्वर्णाश्चत्वारश्च लघवो न सम्भवत्येव, त्रिकहीनेष्ववशिष्टद्वयस्याः .एकत्रिंशद्योगे एकत्रिंशद्वर्णा / एवं सप्तसु लघुषु द्वात्रिंशत्, नवसु त्रयस्त्रिंशत्, यावत् त्रिपञ्चाशति लघुषु / पञ्चाशति अर्धाकृतायां, पञ्चविंशतौ, त्रिंशन्मीलने गाथायामुत्कृष्टतः पञ्चपञ्चाशद्वर्णास्त्रिंशदधि-कामङ्कत्रिदादिषु वर्ण स्थानेष्वेकव्यादि पञ्चविंशतिपर्यन्तवर्णा, परिमाणं तु विशेषणार्थो भिन्नक्रमश्च योक्ष्यते। किंविशिष्टां? द्विगुणं-द्वियुतं / किं भवन्तीत्याह-लहुयक्खरपरिमाणं, पुनरिदमुक्तं भवति। लघ्वक्षरपरिमाणं पुनरित्थं त्रिंशतो वर्णेभ्यो यदधिकमक्षरपरिमाणं / यथैकत्रिंशतिवर्णेष्वेको वर्ण स द्विगुणो द्वौ त्रिभिर्योगे पञ्चलघून्यक्षराणि यविंशतिश्च गुरूणि, एवं यावत् पञ्चपञ्चाशतिवर्णेषु त्रिंशतो अधिकायां पञ्चविंशतौ द्विगुणायां पञ्चाशति त्रिभिर्योगे त्रिपञ्चाश [९बी]ल्लघूनि द्वे च गुरुणी अक्षरे भवत इति गाथार्थः।।१७।। उक्तं लघुवर्णेभ्यः सामान्यतो वर्णपरिमाणं-वर्णेभ्यश्च लघ्वक्षरपरिमाणं / साम्प्रतं मात्राभ्यां गुरुवर्णानां सामान्यवर्णानां पुनरपि भंग्यन्तरेण गुरुवर्णानां च प्रमाणानयनायकरणमाह मत्ता अक्खररहिया गुरवो चत्ता य हुँति गुरु हीणा। लहु यक्खरे हिं हीणा से सद्धे होति गुरु वण्णा।।१८।। मात्राः सामान्यतो गाथायां किल सप्तपञ्चाशत्। किमित्याह- गुरवो गुरुवर्णपरिमाणं भवन्ति / किंविशिष्टा? अक्षररहिता अक्षरैर्वर्णैरहितस्या गाथायां यावन्तो वर्णास्ते रहिता यत्वोत्कर्षतो गाथायां पञ्चपञ्चाशतिवर्णेषु सप्तपञ्चाशतो मात्रापरिमाणादपनीतेष्ववशिष्टो जघन्यतो द्वे गुरुणी अक्षरे भवतः। यदा वर्ण एव मात्राः सप्तपञ्चाशत्परिमाणा गुरुहीना गुर्वक्षरा प्रमाणहीनाः क्रियन्ते तदा वर्णवन्न परिमाणं न भवन्ति / चकारः समुच्चये। यथा क्व [१०ए] चित् गाथायां सप्तविशंति गुरवस्तेषु च सप्तपञ्चाशतोऽपनीतेषु शेषा लेख संग्रह 276