SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ बीयद्धे चवलालक्खणम्मि जघणचवला भवे सा उ। . चवलद्धतिप्पयारा विरामउ होइ विउला वि।।११।। द्वितीयाः पश्चिमदलेऽधिकृतगाथाया एव चपलालक्षणे द्वितीयचतु [६बीर्थावंशको गुरुमध्यगौ स्वयं च मध्यगुरू यदि भवत / एवं लक्षणं किमियाह-जघनचपलेति-जघनचपलाभिधाना भवेत् स्यात् / सा तु सा पुनर्यथेयं सर्वतो मुखजघनविशेषणाविव चपला तथा विपुलापि स्यात् / इत्याह-चपलेव त्रिप्रकारा त्रिभेदा विरामतः विरतिमपेक्ष्य भवति, विपुलापि इदमुक्तं भवति यस्या द्वयोरप्यर्द्धयोः प्रथमगणत्रयापेक्षया न्यूनोऽधिकां वा पदविरतिः सा सर्वतो विपुला, यस्याः पुनः प्रथमार्द्ध वेतार्येव विपुलालक्षणं सा मुखविपुला, पश्चिमार्द्धा च तारिणि वाऽस्मिन्नेव जघनविपुलेति गाथार्थः।।११।। पढ मद्धे छटुं सो होइ दुगप्पो जहे व गाहाए। - तह बीयद्धे विभवे सद्धीमंत भणंति तं गीई / / 12 / / तं गीति भणन्तीति क्रियासम्बन्धः / यस्याः किमित्याह-प्रथमा॰ प्रतीते षष्ठोंऽशको भवति, द्विकल्पोद्विप्रकारो यथैव गाथायां यथेति दृष्टान्तार्थपरा अवधारणे, गाथायां सामान्यलक्षणायां तथा तेन प्रकारेण द्वितीया॰पि भवेत् सा षष्ठांशो क्किल्पो मध्यगुरुश्चतुर्लघुको वा तामेवं लक्षणं गाथा षष्टिमात्रा द्वयोरप्यर्द्धयोः पृथग् त्रिंशन्मा [७ए] त्रत्वात् भणन्ति पूर्वस्तत्र यो गीतिं गीतमार्गोपयोगिनी विगाथाय इति गाथार्थः।।१२।। गाहा बीयदले जइ छटुं सो एगमत्तो उ। तह पढमद्धे विभवे तं उवगीई भणंति बुहा।।१३।। गाथाद्वितीयदले द्वितीयार्द्ध यथा येन प्रकारेण षष्ठोंऽशः कल्प एकमात्रो लध्वका मात्रेत्यर्थः, पुनरवधारणार्थस्तथा प्रथमार्द्धपि यस्याः षष्ठ एकमात्रो भवेत्तामनन्तरोक्तलक्षणामुपगीति भणंति बुधाः-विद्वांस इति गाथार्थः।।१३।। - गाहाए जत्थ पढम बीयदलाणं विवज्जा सो। उग्गीई सा भणिया विराम अंसेहिं होइ पुव्वसमा।।१४।। यत्र यस्यां गाथायामुक्तलक्षणायां प्रथमद्वितीयदलयो विपर्यासो-व्यत्ययः प्रथमार्द्धलक्षणं सप्तांशाश्चतुर्मात्रा अन्त च गुरुरित्यादि तत्, द्वितीयाः-द्वितीयार्द्धलक्ष- [७बी]णं च षष्ठ एकलघुरित्यादि तच्च .प्रथमार्द्ध भवति उद्गीति अभिधानमिति गाथा भणिता। किंविशिष्टा? विरामांशैर्भवति पूर्वसमा यथा सामान्यगाथायां षष्ठे चतुर्लघौ द्वितीयात्, सप्तमे प्रथमात्, द्वितीयार्द्ध तु पञ्चमे प्रथमात् पदपाठः। यथा च प्रथमतृतीयपञ्चमसप्तमेषु मध्यगुरुवर्जिताः शेषाश्चत्वारो गणास्तथा अत्रापीति गाथार्थः।।१४।। गाहसमा सत्तंसा चउमत्ता तहय अट्ठमो अंतगुरु / पढमद्धे तत्तुल्लं बीयपि य खंधयंतमिह विंति बुहा / / 15 / / स्कन्धकं तमिह ब्रुवते बुधाः। यत्र किमित्याह-गाथासमा-सामान्यगाथातुल्याः सप्तेति-सप्तसंख्या अंशगणा:-कल्पा इति अर्थान्तरं / किं रूपाः? चतुर्मात्रास्तथा चेति यथा सप्तमश्चतुर्मात्राश्चकारोप्यर्थे भिन्नक्रमश्च, तथाऽष्टमेपिच तुर्मात्र एव परमंतगुरुरन्ते गुरुय॑स्य स तथा / क्वेत्याह-प्रथमार्द्ध प्रतीत एव, [८ए] न केवलं प्रथमार्द्धमेव एवं रूपं, किन्तु द्वितीयमपीत्याह-तत्तुल्य प्रथमार्द्धसमं द्वितीयोप्यर्द्ध स्कन्धकाभिधानं तच्छन्द इह छन्दोविचारणायां ब्रुवन्ति-आचक्षते बधाः-सधिय इति गाथार्थः।।१५।। एवं सामान्यतो विशेषतश्च गाथालक्षणमभिधाय गाथायामेव परिमाण-वर्ण-संख्याभेदपरिमाणं चाह लेख संग्रह 275
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy