________________ लाघवार्थमार्यालक्षणमतिदेष्टुमत्तरार्द्धमाह- आर्यापि गाथासदृशी, न केवलं गाथा गाथेव दृश्यते किन्त्वार्यापि, सर्वलक्षणसाधर्म्यात् यद्ये-गाथायाः क इवायां विशेष इत्याह-नवरं केवलं सा आर्या संस्कृतनिबद्धासंस्कृतेन भाषाविशेषरूपेण [५ए] निबद्धा रचिता गाथा न तथे-त्यनयोर्विशेषः।। 6 / / सामान्येन गाथालक्षणमुक्त्वा शेषविशेषेषु पदपाठविशेषमाह चउलघु छ8 बीया सत्तमपढमा उ हवइ पयपढमं / पुव्वद्धे पच्छ द्धे पंचमठाण पढमया उ एव।। 7 / / चतुर्लघुश्चासौ षष्ठश्च तत्र द्वितीयाल्लयोः सप्तमे चतुर्लघ्वावेव प्रथमाल्लघोस्तत्र आरभ्य इत्यर्थः, भवतिप्रवर्तते पदपठन-पदस्योक्तरूपस्य पठनं भणनमित्यर्थः। पूर्वार्द्ध पश्चाः प्रतीत रूप एव पंचमठाणे विभक्तिलोपश्च प्राग्वदविकृतत्त्वात् चतुः-चतुर्लघावेव किमित्याह प्रथमकाल्लयोः पदमिति पदपठनं भवतीत्यनुवर्तते / इदमुक्तं भवति यदा गाथायाः प्रथमाः षट्चतुर्थलघुरंशको भवति तदा द्वितीयलघोः पदप्रारम्भो, अस्मिन्नेव सप्तमे प्रथमाद्वितीये पुनर॰ यदि पञ्चमश्चतुर्लघुस्तदा प्रथमादेव पदप्रवृत्तिः, शेषेषु चतुर्लघुः पुनः सम्भवत्स्वपि न पदपाठनीय स इति गाथार्थः।।७।। उक्त सामान्यतो गाथालक्षणमधुना यद्वि [५बी]शेषाद्यविशिष्टा-नामिका गाथा भवति इति गाथाष्टकेनं तदाह सामण्णे सा गाहा विरामअंसयवसाउ भेयासि। पढमं सतिए विरई दोसु वि अद्धे सु सा पत्था / / 8 / / सामान्या अविवक्षितविशेषा एषा अनन्तरोक्तलक्षणा गाथा प्रतीता विरामांशकवशात् विरामस्यविरतेरंशकस्य च-गणस्य वशादपेक्षणाद् भेदा विशेषा भवतीति गम्यते। आसामिति गाथानां सामान्यगाथाविकारेपि विशेषापेक्षया बहुवचनं, सामान्य-विशेषयोः कथञ्चिदभेदादिति। प्रथमांसकंत्रिके द्वयोरपि पूर्वापररूपयो: प्रथमगणत्रिके यस्या विराम वियामवशा न भवति सा एवं रूपा गाथा पथ्या पथ्येत्यभिधाना भवन्तीति गाथार्थः।।८।। विउ लाहिजणविस्सामे या गुरुणंतरे उ मज्झगुरू। बीउ चउत्थउ अंसं उ उ सा सव्वउ चवला।।९।। विपुलेति, विपुलाभिधाना गाथा भवतीति गम्यते / किंविशिष्टा? अधिको न विश्रामजाऽधिकजनो वा पूर्वोक्तगण उपापेक्षया यो विश्रामो-विरतिस्तस्माज्जाताधिको न विश्रामजोक्ता विपु[६ए]ला गाथा शेषेण सर्वतश्चपलामाह। गुलरुणा:(?) पूर्वापरांसकचरमाद्ययोरक्षरयोरन्तरे मध्ये तुरेवकारार्थः, ततोऽन्तर एव मध्यगुरुर्मध्ये गुरुर्यस्य स, तथांशको यस्याः स्यादिति गम्यते / किंविशिष्टा? द्वितीय चकारस्य लुप्तनिर्दिष्टत्वात् चतुर्थकश्चांशको गणः, तु पुनरर्थे भिन्नक्रमश्च, द्वयोरप्यर्द्रयोः स्यात्, सा पुनरेवं लक्षणा सर्वतश्चपलागाथाविशेषा भवतीति गाथार्थः।।९।। पढमे दलंमि नीसे सलक्खणं के वलं तु चपलाए। बीए पुण सामण्णं गाहा सा होइ मुहचवला।।१०।। यस्याः स्यादिति गम्यते। प्रथमं दले अर्थे निःशेषं च लक्षणं केवलं शुद्धं, तुरेवकारार्थः भिन्नक्रमः, चपलाया एव द्वितीये का वार्ता? इत्याह-द्वितीये पुनरः इत्यनुवर्तते, गाथासामान्यं सामान्यगाथालक्षणमित्यर्थः। सा किमित्याह- भवति मुखचपला-मुखचपलाभिधाना गाथा भवतीति गाथार्थः।।१०।। 274 लेख संग्रह