________________ . लहु य पउणेक्कमत्तं सेसं कप्पा य पंच चउमत्ता। . .. दो अंत मज्झ आई गुरवो चउ लहु य नायव्वा / / 3 / / - लध्विति- लघुसंज्ञः, चकारः समुच्चये भिन्नक्रमश्च, प्रगुणैकमानं च प्रगुणं-ऋजुस्थापनायामेकमात्रं च मात्रागणनायां पश्चाद् विशेषणसमासः। किं तदित्याह-शेषमिति दीर्घमबिन्द्वाद्यक्षरादन्य भवतीति, कल्पाश्च पञ्च चतुर्मात्रा इति कल्प्यन्ते विरच्यन्ते इति [३बी] कल्पा अंशकाश्चकारः पुनरर्थे, पञ्चेति संख्यया। चतस्रो मात्रा येषु ते तथा तानेव स्वरूपतो व्यनक्ति / द्वयन्तमथादिगुरवः चतुर्लघुश्च ज्ञातव्या इति बोधन्ते, मध्ये आदौ च यथासम्भवं गुरुगुरुश्च येषां ते, तथा चत्वारो लघवो यत्र स, तथा विभक्तिलोपश्च प्राकृतत्वात् न चकारनुक्तसमुच्चये ज्ञातव्या बोद्धव्या। इदमुक्तं भवति, एकस्तावद् द्विगुरुरन्यो अन्तगुरुचतुर्मात्रत्व-नियमाच्चादौ द्विलघुपरो मध्यगुरुराद्यन्तयोरेकैकलघुस्तदपर आदिगुरुरन्त द्विलघुश्चेत्येवं चत्वारः कल्पाश्चतुर्लघुश्च पञ्चम एत एव चतुर्मात्रागाथायां प्रयुज्यन्त इति गाथार्थः। स्थापना-द्विगु ऽ ऽ, अन्त्यगु / / 5, मध्यगु / ऽ / , आदिगु 5 / / , चतुर्लघु / / / / / / 3 / / उक्तामेव गुरुसंज्ञा क्वचिदपवदितुमाह भत्तीए जिणाणं कम्माई गलंति कु गइ ओ नासंति। पउ बिंदू दीहपरा लहु य कत्थइ पयंते / / 4 / / पश्च-पकारश्च उश्च-उकारो बिन्दुश्च-बिन्दुमान् तस्य केवलस्यासम्भवात् पउबिन्दवो गुरवोऽपि लघवो भवन्ति। किंविशिष्टा? दीर्घात्पराः। किं सर्वत्र नेत्याह-कुत्रापि लक्ष्यानुसारेण पदान्ते विभक्त्यन्तं पदं तदन्त [४ए] इत्यर्थ:! अयं चार्थः-पूर्वार्द्धन लक्ष्यरूपतयोक्तस्तदर्थश्चायं भक्त्योचितकृत्यकरणरूपया, केषां जिनानांअर्हतां। किमित्याह- कर्माणि ग़लन्ति कर्माणि-ज्ञानादीनि (ज्ञानावरणीयादीनि)। अथ बन्धपरिणामतया भक्तिमतामेव जीवप्रदेशेभ्यः पृथग् भवन्ति / यदि कथञ्चित् कालसंहननादिबलविकलतया निखिलकर्ममलो न गलति ततः किमित्याह- कुगतयो नरकतिर्यक्कुमानुषत्वकुदेवत्वलक्षणा नस्यन्ति / अपुनर्भावसर्वदर्शिनामपि दर्शनपथमवतरन्तीति / / 4 / / इह गाथाया द्वे अर्द्ध प्रथमार्द्धमितरश्च तत् प्रथमार्द्धस्वरूपं वक्तुकाम आह . पढ मद्धे सत्त चउमत्ता होति तह गुरू अंते। .. . नो विसमे मज्झगुरू छट्ठो अयमेव चउ लहु या।।५।। प्रथमां॰ प्रतीते सप्तेति संख्या अंशा: गणाः कल्पा इत्यनर्थान्तरं / किंविशिष्टाः? चातुर्मात्रा उक्तरूपा भवन्ति / तथा गुरु गुरु संज्ञमक्षरमन्ते प्रथमार्द्धस्यैव भवतीति / नो नैव विषमे / विषमसंख्यास्थाने-प्रथमतृतीयादिके। मध्यगुरुरुक्त रूपोंशको भवतीति गम्यते। षष्ठः-ठस्थानवर्ती अयमेव मध्यगुरुरेण [४बी] भवन्तीति विषमस्थापने। खु मध्यगुरुकल्परहिताश्चत्वारः कल्पास्समे तद्वितीयचतुर्थलक्षणेन अहिता, एवं पञ्चषष्ठस्तु द्विकल्पो चति गाथार्थः।।५।। उक्तं प्रथमार्द्धस्वरूपं द्वितीयस्य तद्वक्तुमाह बीयद्धे वेसकामो छटुं सो नवर मेगमत्तो उ। 'अज्जावि गाह सरिसा नवरं सा सक्कयनिबद्धा।।६।। द्वितीयं च तदर्द्धं च द्वितीयार्द्ध तत्राविकृतगाथाया एवापि शब्दः पूर्वार्धक्रमापेक्ष एष पूर्वार्द्धविषयक्रमः परपाटिः। यदुत सप्तांशाः चतुर्मात्रा इत्याद्यनन्तरोक्तो विशेषमाह-प्रथमार्धात् द्वितीया? अयं विशेषो यदुत षष्ठोंश एकमात्रास्तु एवकारार्थस्ततश्चैकत्र एव। सामान्येन यदेव गाथालक्षणमार्याया अपि तदेवेति प्रसङ्गत एव 273 लेख संग्रह