________________ इहाचार्यः कलुषकालपतापलुप्ताद्भुतद्रुतमतिविभवान् अत एव बहुबुद्धिबोध्य पिङ्ग लादिप्रणीतछन्दोविचितिशास्त्रावधारणाप्रवणान्त:करणान् भूयसोऽद्यतनजनाननुग्रहीतुं गाथाछन्दस्य प्रायः सकलबालाबलादिजनवचनव्यवहारगोचरतया बहू पयो गीत्यवेत्य तदेव संक्षेपतो वक्तु कामो मङ्गलाभिधेयाभि-धायिकामिमामादावेव गाथामाह - नमिऊण छंदलक्खणधेणु सव्वन्नणो वरं वाणिं। गाहाछंदं वोच्छं लक्खणलक्खे हिं संजुत्तं / / 1 / / इह विघ्नोपशमननिबन्धनतया शिष्टसमाचारतया पूर्वार्द्धन मङ्गल- प्रेक्षावत्प्रवृत्त्यङ्गतया चोत्तरेणाभिधेयं / सम्बन्धप्रयोजने च सामर्थ्यादुक्ते इति समुदायार्थः। अवयवार्थस्तु- नत्वा-प्रणम्य, कां? वाणिं-भारतिं / किंविशिष्टां? छंदोलक्खणधेणुं छन्दसां-गाथाश्लोकवृत्तादीनां वचनरचनाविशेषाणां लक्षणं तत्स्वरूपाभिधायकं वचनं लक्ष्यते असाधारणधर्माभिधानेन विपक्षविविक्तं लक्ष्यमनेनेति कृत्वा छन्दोलक्षणं [२ए] तस्य धेनुरिवपयःप्रसविनीं गौरिव छन्दोलक्षणधेनुस्तां / एषा चाविशिष्टा पुरुषकर्तृकाकर्तृकापि कस्यचिन्मतेन वाणी स्यात् .. तद्व्यवच्छेदार्थमाह-सर्वज्ञस्य-सर्वमतीतादि ज्ञातवान् जानाति ज्ञास्यति चेति सर्वज्ञस्तस्य तत्प्रणीतामित्यर्थः। अत एव वरां-प्रशस्यां परां वा प्रकर्षवतीमन्यस्यास्त्वनाप्तप्रणीतत्वेन विसंवादिनी त्वस्यापि सम्भवादपौरुषेयत्वेन च वर्ण्यते - भण्यते इति वाणी, ततः पुरुषव्यापारा-मुंगतात्मरूपत्वेन स्वलक्षणस्याप्यनुपपत्तेर्वस्त्वपरत्वयोरसम्भव इति। अत्र छन्दोलक्षणधेणुमिति विशेषणेनाऽस्य छन्दोलक्षणप्रकरणस्य तत्प्रस्तुतत्वेन प्रामाण्यमाह-गाथाछन्दो वक्ष्ये गीयत इति गाथा वक्ष्यमाणलक्षणा तस्याच्छन्दोरचनाविशेषा गाथाछन्दस्तद वक्ष्ये-अभिधास्ये। किंविशिष्टामित्याह-लक्षणलक्ष्याभ्यां लक्षणंउक्तस्वरूपं लक्ष्यं च लक्षणगम्योऽर्थः, ताभ्यां युक्तं-संगतमिति। इह नत्वा [२बी] वाणीमिति, मङ्गलं गाथाछन्दोभिधेयमभिधानं त्विदमेव प्रकरणमभिधानाभिधेयलक्षणश्च सम्बन्धप्रयोजनं च कर्तुरनन्तरं सत्वानुग्रहः, श्रोतुश्च प्रकरणाधिगमः, परम्परं च द्वयोरपि मुक्तिरितिगाथार्थः / / 1 / / इदानीं प्रकृतार्थोपयोगिनी संज्ञापरिभाषां च तावदाह दीहक्खरं सबिंदु संजोगविसग्गवंजणपरं वा। . गाहादलमंतिमं च गुरुं वंकं दुमत्तं च।।२।। दीहत्ति / विभक्तिलोपाद् दीर्घं न क्षरति-न चलति प्रधानत्वादक्षरं स्वरस्तथा विशिष्टामपि स्याद् अतो दीर्घमति विशेषणादक्षरं ह्रस्वपञ्चकवर्जिता शेषं स्वरा नित्यं सन्ध्यक्षराणि दीर्घाणीति वचनात् सन्ध्यक्षराणामपि दीर्घत्वाद् गुरुवनं द्विमात्रं च भवतीति सर्वत्रसम्बन्धः। तथा सबिंदु-सानुस्वारमक्षरमिति सामान्यानुवृत्तावपि ह्रस्वमिति सर्वत्रापि क्रियते, दीर्घस्य पृथगेव गुरुत्वादिभणनेन सबिन्दुत्वादेरनुपयोगात्। तथा संयोगविसर्गव्यञ्जनपरं वा सं [३ए] योगश्च-द्वयादिव्यञ्जनानाम(मे?)लकः, विसर्गश्च प्रतीतो, व्यञ्जनं च ककारादिसंयोग विसर्गव्यञ्जनानि परे यस्मात् तत्तथा। वाशब्दः समुच्चये। तथा गाथादलतिमं च मकारोऽलाक्षणिको। गाथोक्तरूपा तस्या दले-पूर्वापररूपे तयोरन्तिम-पर्यन्तवर्ति ह्रस्वमप्यक्षरं, किमित्याह गुर्विति / गुरुसंज्ञं वक्रं रचनायां द्विमानं च मात्रागणनायां परिभायते / अत्र च प्राकृते णादोतो विसर्गव्यञ्जनपरत्वस्य चानुपयोगे पर्योपि गाथा सदृशी भवतीत्यति वक्ष्यमाणत्वादा- यत्यामुपयोगसम्भवेनोपन्यास इति गाथार्थः।।२।। साम्प्रतमविशिष्टाक्षरसंज्ञापरिभाषेऽधिकृतछन्दत्रययोग्यं अथपञ्चकस्वरूपं च विभणिषुराह 272 लेख संग्रह