________________ वर्या राजूश्च मेघाई, भार्ये अभवतां पुरा / श्रेष्ठिनो हरिराजस्य, पुमर्थत्रयशालिनः।। 16 / / इतश्च परीक्षवंशशृङ्गार-मुभयेऽस्य सुतोऽभवन् / सद्येशः करणस्तस्य, करणादे प्रियाऽभवन् / / 17 / / चत्वारः तनयास्तस्य, पुमर्था इव देहिनः। नरसिंहो महीपत्ति-र्वीरमः सोमदत्तकः।। 18 / / चतस्रश्च सुतास्तासु मेघाईति तृतीयिका। साध्यूढा हरिराजेन, कलालावण्यमालिनी।। 19 / / जीवाख्यो जिणदासश्च जगमालश्च तत्सुताः। शुद्धशीलासदाचारा मणकाई ति नन्दिनी।। 20 / / नाम्ना कुतिगदेवीति जीवराजस्य वल्लभा। वल्लभा जिंणदासस्य, जसमादे यशस्विनी।। 21 / / सुखमति-प्रसूतास्तु, नरसिंहस्य नन्दनाः। सहस्रकिरणः सूरा, महीपतिरिमे त्रयः।। 22 / / सहस्रकिरणस्यास्ति, अद्दा सद्दा सुतद्वयोः। महीपति तनूभृतो, वच्छराजः कुमारकः।। 23 / / धर्मपुत्र सुभागाख्यो, हरिराजस्य धर्मवान् / इत्यादि परिवर्हेणा-गर्हेणासावलङ्कृतः।। 24 / / तीर्थयात्रासु सङ्घार्चा-जैनधर्मप्रभावनाः। कुर्वन् विराजते श्रेष्ठी, हरिराजो निरन्तरम्।। 25 / / इतश्च श्रीवर्धमानांह्रिसरोजहंसः, श्रीमत्सुधर्मागणभृद्वतंसः। तदन्वये श्रीहरिभद्रसूरिः, प्रभापराभूतसुपर्वसूरिः।। 26 / / शासनोद्योतकर्तार, श्रीउद्योतनसूरयः। श्रीवर्द्धमानसूरीन्द्राः, वर्द्धमानगुणाधिकाः।। 27 / / यैः श्रीपत्तननगरे, प्राप्तं श्री खरतराख्यवरविरुदम्। दुर्लभभूपतितस्ते, जेजु-जैनेश्वराचार्याः / / 28 / / लेख संग्रह 259