________________ आयुर्वेदः कलाढ्यश्च मृतेश प्रथमोऽपि च। एकमातृकवाणीशौ सारस्वत-ललाटकौ। मृत्युञ्जयः स्वराद्यश्च मातृकाद्यो लघुस्तथा। आ आकारोऽनन्तक्षीराब्धी गुरुर्नारायणो मुखम्। वृत्ताकारो दीर्घ, आपश्चतुर्मुखप्रकाशकौ। मुखवृत्ताऽमृते वक्रो द्वितीयस्वरमोदको। [ ] इति / अपि चव्यञ्जनानि त्रयस्त्रिंशत् स्वराश्चैव चतुर्दश। [ ] इति। .. इत्याधनेकशास्त्रानुसारेण चतुर्दशस्वराः सारस्वतव्याकरणेऽप्यवश्यं 'उभये स्वराः' [ सा. संज्ञाप्रकरण. 4] इति सूत्रस्य पूर्वोक्तरीत्या व्याख्यानात् अवबोधव्यानि : विद्ववृन्दारकैः। एकविंशतिरपि स्वराः यत् पाणिनीयशिक्षा 'स्वरा विंशतिरेकश्च' [पाणिनीयशिक्षा प. 4] इति / तच्चैवम् - अ१, इ२, उ३ एते त्रयः ह्रस्वदीर्घप्लुतभेदात् नव 9, ऋवर्णः प्लुंतहीनो द्विविधः 2, लकारो दीर्घहीनो द्विविधः 2, सन्ध्यक्षराणि 2 दीर्घप्लुतभेदात् 8, एवं एकविंशति स्वराः सन्ति / परं व्याकरणे सन्ध्यादिकार्योपयोगित्वेन चतुर्दशानामेव उपयोगात् चतुर्दशैव स्वराः। ये च सारस्वतटीकाकाराः वासुदेवादयः पञ्च समानाः नवस्वराः अष्टौ नामिनः इति प्रतिपादयन्ति, तद् असत्, पूर्वकविप्रणीत व्याकरणद्यनेकग्रन्थैः सह विरोधात्, सरस्वतीकृत समानादिसंज्ञामपि च सर्वपूर्वकविप्रणीतानेक-ग्रन्थसंज्ञानुयाधित्वात् / छ। इति श्रीश्रीवल्लभोपाध्यायविरचितं चतुर्दश स्वरस्थापनवादस्थलं समाप्तम्। श्रीजिनराजसूरीन्द्रे धर्मराज्यं विधातरि / अस्मिन् खरतरे गच्छे धर्मराज्यं विधातरि // 1 // जगद्विख्यातसत्कीर्त्तिानविमलपाठकः / योऽभवत्तस्य पादाब्जभ्रमरायितमानसः॥ 2 // 1. बोधव्या कै. 2. अष्टौ इत्यधिकपाठो कै.। 3. समानऽमपि इति जयपुर प्रतौ. 252 लेख संग्रह