________________ 8.2.86 ] इति पाणिनीयसूत्रेण स्वराश्रितस्य प्लुतस्य प्रतिपादनाच्च लकारस्य स्वरसंज्ञायां प्रयोजनं विद्यते एव। शर्ववर्मणस्तु मते अकारादीनामिव लुवर्णस्यापि स्वरसंज्ञया मुख्यमेवं प्रयोजनं विद्यते / यथा- अमू लकारं पश्यतः, अमी लकारं पश्यन्तीति उभयत्राऽत्र अदसोमात् [ पाणिनि. 1.1.12. ] इति प्रक्रियासूत्रेण, * नामी [ सा. प्रकृतिभाव. 1.] इति सारस्वतसूत्रेण वा प्रकृत्या भवनात् लकारस्य स्वरसंज्ञाप्रयोजनसद्भावः सिद्धः। ___ 'लवर्णो न दीर्घोऽस्ति' इति यद् रामचन्द्रो अवोचत्, तदपि तदिच्छया तस्यैव 'स्वतः प्रमाणं न परतः' इति। __ तथा च कालापकव्याकरणसूत्रं,' तत्र, चतुर्दशादौ स्वराः [ ] तथा च एतट्टीका- तत्र तस्मिन् वर्णसमाम्नायविषये आदौ ये चतुर्दशवर्णास्ते स्वरसंज्ञा भवन्ति / स्वर 14 - अ आ इ ई उ ऊ ऋ ऋ ल लू ए ऐ ओ औ। यथा अनुकरणे ह्रस्वलकारोऽस्ति तथा दीर्घोऽप्यस्तीति मतमिति। तथा च हैमव्याकरणसूत्रम् 'औदन्ताः स्वराः' [सिद्धम. 1.1.4 ] वृत्तिश्चास्य- 'औकारावसाना वर्णाः स्वरसंज्ञा भवन्ति। तकार उच्चारणार्थः। अ आ इ ई उ ऊ ऋऋ ल ल ए ऐ ओ औ। औदन्ता इति बहुवचनं वर्णेष्वपि पठितानां दीर्घपाठोपलक्षितानां प्लुतानां संग्रहार्थं, तेन तेषामपि स्वरसंज्ञेति।' तथा च काव्यकल्पलतासूत्रम् - विकृति स्रोतस्विन्यः चतुर्दश तु ' [ ] इति। तथा च हैमानेकार्थसूत्रम् - स्वरः शब्देऽपि षड्जादौ [अनेकार्थ कां. 2 श्लो. 477 ] इति। 'अच्' इति अकारादीनां चतुर्दशानां वर्णानां पाणिनीयासंज्ञा। तत्र यथा - 'एकस्वरं चित्रमुदाहरन्ति' [ ] इति हैमानेकार्थटीका। . तथा च विश्वप्रकाशकार:स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ। उदात्तादिष्वपि प्रोक्तः, [विश्वप्र० रान्तवर्म 9 ] इति। हलायुधोऽपि- 'अकारादावुदात्तादौ षड्जादौ निस्यने स्वरः। ] इति। ] इति। तथा वर्णनिर्घण्टौ चामुण्डोऽपिअकारादीनां मातृकानुक्रमेण नामानि न्यबध्नात् / तद्यथा अकारोऽथ निगद्यतेश्रीकण्ठः केशवस्त्वाद्यो ह्रस्वो ब्राह्मणकः शिवः। 1. 'व्याकरण' नास्ति कै.। 2. काव्यकल्पलता................ रत्नपुरुषत्वे य स्वप्नाः जीवाजीवोपकरणगुणिनाग्रगारं रज्जुसूत्रं पूर्व मिहाकुले करिपिण्डप्रकृति - इति पाठोविद्यते कै. प्रतौ। 3. अकारादिपु वर्षेषु पढ्जादिपु सप्तेषु उदात्तादिषु विज्ञेयः। प्रक्रियां स्वरे स्वरः इति / धनञ्चयोऽपि इति पाठोऽधिकः कै. प्रतौ। लेख संग्रह 251