SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ यद्वा, उभये इति पदं अत्र तन्त्रेण भण्यते। तन्त्रं नाम सकृदनुष्ठितस्य उभयार्थसाधकत्वम्। यथा उभयोः प्रधानयोर्मध्ये व्यवस्थापितः प्रदीपः सकृत्प्रयत्नकृतः उभयोपकारकः स्यात्, तथा उभये इति. पदमपि सकृदुच्चरितं ह्रस्वदीर्घति समुदायद्वयस्य अकारादि पञ्चक एकारादि चतुष्केति समुदायस्य च उपकारकम्। ___ अथवा, उभये इति पदं आवृत्त्या आवर्तनीयम्। आवृत्तिर्नाम पुनः पाठः एकशेषे वा। स च यथा उभये उभये स्वराः इति वारद्वयं उभये इत्यस्य पाठे पठनीये। एकशः पाठे उभये स्वरा, इत्ययम्, पुनः पाठे उभये च उभये च उभये सरूपाणामेकशेष इत्येकशेषेऽपि उभये स्वराः इत्येकशेषः। एवं तन्त्रेण पुनः पाठेन एकशेषेण च उभये स्वराः इतीदृशं सूत्रं सूत्रयति स्म सरस्वती, तस्य अयमभिप्रायार्थः। प्रथमेन उभये इति पदेन चतुर्णां ह्रस्वदीर्घप्लुतभेदानां स्वरसंज्ञा-सद्भावेपि सन्ध्याकार्यानुपयोगित्वात् प्लुतभेदान् परित्यज्य ह्रस्वदीर्घ इति समुदायद्वयमग्रहीत। द्वितीयेन उभये इति पदेन 'अइउऋलुसमानाः' [ संज्ञाप्र० 1. ] इति सूत्रोक्ता अकारादयः पञ्च, ए ऐ ओ औ सन्ध्यक्षराणि [ संज्ञाप्र० 3.] इति सूत्रोक्ताश्चत्वार एकारादय इति समुदायद्वयं अग्रहीत। . ततोऽयमर्थः- अकारादयः पञ्च, उभये ह्रस्वदीर्घाः, चत्वार एकारादयः उभये स्वरा उच्यन्ते इति। स्वयं राजन्ते शोभन्ते एकाकिनोऽपि अर्थं प्रतिपादयन्त इति स्वराः। उ प्रत्ययः पृषोदरादित्वात् स्वयं शब्दस्य स्वभावः। तथा च स्वरलक्षणं प्रोक्तं प्राग्भिः अ विष्णुः स्मृतिवाक्ये आ इ गताविति मूर्तिभिः / लिङ्गनिपातधातूनां विराजन्ते स्वयं स्वराः॥ इति। तच्चैते अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ। ननु इह लवर्णस्य स्वरसंज्ञायां किं प्रयोजनम्? लकारः 'कृ पू सामर्थ्य' इत्यस्मिन् धातो एव प्रयुज्यते / कृपेरो लः [ भ्वादि.आत्मने. 20 ] कृपेर्धातो: रेफस्य लकारादेशो भवति र इति / रश्रुतिसामान्यं उपादीयते / तेन यः केवलो रेफो यश्च ऋकारस्थः तयोरपि ग्रहणं ल इत्यपि सामान्यमेव उपादीयते / ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते / इत्यनेन ऋकारस्यापि एकदेशविकारद्वारेण लकारकरणादेव प्रयोगो दृश्यते, न च तत्र स्वरसंज्ञायाः किमपि प्रयोजनं विद्यते। दीर्घस्य लुकारस्य तु सर्वथा प्रयोग एव नास्तीति। मैवम्, यदशक्ति यदसाधु तदनुकरणस्यापि साधुत्वमिष्यते। यथा- 'अहो ऋतक' इति प्रयोक्तव्ये शक्तिवैकल्यात्। कश्चित् 'अहो तृतक' इति प्रयुक्तवान्। तदा तत्समीपवर्ती किमयं आह इति अपरेण केनाऽपि पृष्ठः सन् तमनुकुर्वन् 'अहो तृतक' इत्याह - इति कथयति।। ___ अथ च लुकारस्य स्वरसंज्ञया 'ओत् [ पाणिनि. 1.1.15 ] इति प्रक्रियासूत्रेण, 'औ निपातः' [प्रकृतिभाव० 3.] इति सारस्वतसूत्रेण वा प्रकृत्याभवनात् क्लृप्त इत्यत्र अनचि च [ पाणिनि. 8.4.47 ] इति प्रक्रियासूत्रेण, हसेऽर्हहसः [ स्वरसंधिः 2] इति सारस्वतसूत्रेण वा लस्वरात् परस्य पकारस्य द्वित्वभावनात्। 'क्लु३तशिख' इत्यत्र दूराद् हूते चेति गुरोरनृतोऽनन्तस्याप्यैकैकस्य प्राचाम् [ पाणिनि. 250 लेख संग्रह
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy