SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ह्रस्वदीर्घः अ आ 1, दीर्घह्रस्वः आ अ 2, ह्रस्वह्रस्वः अ अ 3, दीर्घदीर्घः आ आ 4. इति चतुर्भङ्गी। तदुक्तम् क्रमोत्क्रमस्वरूपेण सवर्णत्वं निवेदितम्। इष्टादपि सवर्णत्वं भणितं ऋलकारयोः॥१॥ [ ] इति। तथा च हैमव्याकरणम्- लृदन्ताः समानाः [ सिद्धहेम. 1.1.7 ] इति / तथा च नरपतिः मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया। तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः // शेषा दश स्वरास्तेषु स्यादेकै कं द्विकं द्विकम्। [ ] इति / एवं अकारादीनां प्रत्येकं युग्मयुग्मत्वेन सवर्णत्वात्- समानसंज्ञा सिद्धा / प्लुतस्य च सवर्णसंज्ञासद्भावेपि सन्ध्यादिकार्येषु सन्धिकार्याऽनर्हत्वात् न समानसंज्ञेति / ननु लोकेऽपि अ-इ-उ-ऋ-लु इति ह्रस्वपञ्चाक्षराणां पञ्चदीर्घाक्षरैः सह रेखाद्याकृतिविशेषे सत्यपि 'एकदेशविकृतं अनन्यवद्भवति' इति न्यायादभेदात् 'वर्णग्रहणे जातिग्रहणम्' इति न्यायेनाऽपि च एकवर्णग्रहणे तज्जातीयस्य अनेकस्यापि ग्रहणात् समानसंज्ञाप्रतिज्ञा युक्ता / यतः- प्रथमं मातृकापाठं पाठयतां बालानामपि ? "आईडा बि भाईडा, वडइ भाई कानउ' इत्यादि उच्चारणकालात् 2 अग्रे उपरि अधश्च कानकादिरे खाविशेषाणां लेखनात् , ज्योति:शास्त्रेऽपि नामादिमाऽक्षरोच्चारे ह्रस्वदीर्घयोरेकराशिगणनाच्च / व्याकरणेनाऽपि मातृकाक्षराणामेव निर्णयकरणात् व्याक्रियन्ते स्वरव्यञ्जनानि स्वरव्यञ्जनसंयोगाऽसंयोगाभ्यां 3 आकारविशेषी क्रियन्ते अनेनेति व्याकरणम् इति व्युत्पत्तेः। इति सारस्वतव्याकरणे 'दश समाना' इति संज्ञा सिद्धा। - 'उभये स्वराः' [संज्ञाप्र० 4.] इत्यस्यायमर्थः- उभौ अवयवौ ह्रस्वदीर्धी कार्यकाले येषां ते उभये उभशब्दादपि सर्वादित्वाज्जसीत्वम्। ननु ह्रस्वदीर्घप्लुतभेदानां स्वरसंज्ञासद्भावेऽपि उभये इति पदस्य कस्य कस्यचिद् विशेषार्थस्य प्रतिपादकत्वात् उभये इति पदं प्रयुक्तवानाचार्यः। एवं नो चेत्, उभये इति पदस्य समुदायद्वयपरामर्शकत्वात् 'ह्रस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० 2. ] इति सवर्णसंज्ञकाः। 'ए ऐ ओ औ सन्ध्यक्षराणि' [संज्ञाप्र० 3. ] इति सन्ध्यक्षरसंज्ञाश्च उभये स्वरसंज्ञा भवन्तीति व्याख्या स्यात्? __न चैवम्, सत्यम्, अकारादयः पञ्च चत्वार एकारादय 'उभये स्वराः' [संज्ञाप्र० 4. ] इति व्याकुर्वत आचार्यस्याभिप्रायेण अयमर्थः। स चाऽयं ह्रस्वदीर्घति सूत्रस्य समानदशकत्वस्थापकत्वेन साक्षिकस्य इव 'अइउऋल समानाः' [ संज्ञाप्र० 1.] 'ए ऐ ओ औ सन्ध्यक्षराणि' [ संज्ञाप्र० 3.] इति सूत्रद्वयस्य विचाले स्थितत्वात् अकारादयः पञ्च, उभये ह्रस्वदीर्घाः, चत्वार एकारांदयः स्वरा उच्यन्ते इति अयमर्थः समर्थः। 1. बालकानामवि इति कै। 2. कारणात् कै। 3. संयोगा नास्ति कै.। * लेख संग्रह 249
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy