________________ अग्रहणात् / दीर्घानामग्रहणात् ‘इयं स्वरे' 'उ वम्' इत्यादीनां प्राप्तेरभावात् / दध्यानय इत्यादीनामुदाहरणानां सिद्धिर्न स्यात्। अथ चेत्, 'ह्रस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० 2.] इत्यनेन सूत्रेण दीर्घग्रहणात् सिद्धिर्भविष्यति। एवं चेत्, तर्हि स्वरसंज्ञाव्याघातात् इयं स्वरे दीर्घ च इतीदृशं सूत्रं स्यात्, न तथा। अतः स्वराः चतुर्दशैव सर्वव्याकरणादिशास्त्रसम्मतत्वात् स्र्वशिष्टप्रमाणत्वाच्च। ननु सरस्वतीविहितसूत्रस्य अनुभूतस्वरूपाचार्यविहि तव्याख्यानस्य च अल्पाक्षरै : समस्तपुराणाव्याकरणसम्मताऽनल्पार्थसूचनात् अइउऋतृसमानाः [ संज्ञाप्र० 1. ] इति सूत्रेण समाना इत्यस्य अयमर्थः- समानं तुल्यं मानं परिमाणं येषां ये समानाः। 1 सत्यम्, उदात्तानुदात्तस्वरितभेदात् त्रयस्तावद् अकाराः। पुनस्ते सानुनासिक-निरनुनासिकभेदात् द्विविधा-केचिदकाराः उदात्तानुदात्तस्वरिताः सानुनासिकाः, केचिदकाराः उदात्तानुदात्तस्वरिताः निरनुनासिकाः। इति अकारः षोढा भिद्यते / एवं दीर्घप्लुतयोरपि प्रत्येकं भेदकथनात् अष्टादशधा भिद्यते अवर्णः। एवं इवर्णादयोऽपि। इत्थं समानपरिमाणत्वयुक्तत्वात् समान- संज्ञा अन्वर्था अकारादीनाभित्यर्थः। ननु एवं सति अकारादीनां पञ्चानामेव समानसंज्ञासद्भावे गङ्गानामित्यादौ दीर्घाकारादीनां समानकार्य न स्यात् इत्याशङ्कां निराकर्तुं अनुक्तामपि समानातिसंख्यां पुराणव्याकरणानुसारिणी प्रमाणयितुं ह्रस्वदीर्घप्लुतैः स्थानप्रयत्नादिभिश्च स्वर्णसंज्ञां ज्ञापयितुं च 'ह्रस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० 2.] इति परिभाषासूत्रं व्यरचयद् आचार्यः, अनियमे नियमकारिणी परिभाषेति परिभाषालक्षणात् पूर्वसूत्रेण समानसंज्ञाया अनिश्चयीकरणात् 'हस्वदीर्घप्लुतभेदाः सवर्णा.' [संज्ञाप्र० 2.] इति परिभाषासूत्रेण ह्रस्वदीर्घयोः सावर्णात् सरस्वतीकृते सूत्रे ह्रस्वोक्त्या दीर्घसंग्रह इति वचनादपि दीर्घग्रहणात् 'दश समानाः' [कातन्त्र. 1 / 1 / 3 / ] इति समानसंज्ञा निरणयत्। अपरञ्च स्थानप्रयत्नाभ्यामपि सवर्णाः [ ] इति सवर्णसंज्ञां प्रज्ञापयत् श्रीमदनुभूतिस्वरूपाचार्यः। ननु प्लुतभेदयोस्तु समानसंज्ञां प्लुतभेदयोस्तुरे सवर्णसंज्ञामेव इति ह्रस्वदीर्घप्लुतभेदा इत्यत्र भेदशब्दग्रहणात् स्थानप्रयत्नयोर्ग्रहणात् स्थानप्रयत्नाभ्यां अकारादीनां व्यञ्जनानां च सवर्णसंज्ञा दर्शनात् / तथा च पाणिनिः। 'तुल्यास्य प्रयत्नं सवर्णम्' [ पाणिनि 1.1.9 ] इति। तथा च कालापकव्याकरणम्। 'दश समानाः' [कातन्त्र० 1 / 1 / 3] तस्मिन् वर्णसमाम्नायविषये आदौ ये दशवर्णास्ते समानसंज्ञा भवति / 'तेषां द्वौ द्वावन्योन्यस्य सवर्णी' [कातन्त्र. 1 / 1 / 4 ] / तेषामेव दशानां समानानां मध्ये यौ द्वौ द्वौ वर्णौ तौ अन्योन्यस्य परस्परं सवर्णसंज्ञौ भवतः। सवर्ण 9 - अ आ इ ई उ ऊ ऋ ऋ ल ल तेषां ग्रहणं व्यक्त्यर्थं, तेन ह्रस्वयोर्द्वयोः दीर्घयोश्च द्वयोः सवर्णसंज्ञा सिद्धेतीति। तच्चैवम्१. कै. प्रतौ - ननु अकारादयः पञ्चवर्णा असदृशं विलक्षणमाकारं विभ्राणाः कथं समानपरिमाणाः येन समानं परिमाणं येषां ते समानपरिमाणा मित्यर्थः कथ्यते? 2. समानसंज्ञा प्लुतभेदयोस्तु नास्ति ज़ प्रतौ। 3. अन्योन्यसंज्ञौ इति कै. 4. व्यक्तिरर्थ: प्रयोजनमस्य करणस्य तत् कैः 248 लेख संग्रह