________________ मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया। तेषां द्वावन्तिमौ त्याज्यौ चत्वारञ्च नपुंसकाः॥ शेषा दश स्वरास्तेषु स्यादेकैकं द्विकं द्विकम्। ज्ञेया अतः स्वराद्यास्ते स्वराः पञ्च स्वरोदये। इति / ऋ ऋ ल ल एतान् चतु:संख्यान् नपुंसकान्, द्वौ अन्तिमौ अं अः इत्येतौ च त्यक्त्वा, अ इ उ ए ओ एते पञ्च कार्यकारिणः स्वराः स्वरोदये ज्ञेयाः। इति ज्योतिःशास्त्रे षोडशप्रकारो अकारादिसंज्ञाप्रतिपादक: स्वरशब्दोऽवगन्तव्यः। .. अथ भो! भो! व्याकरणाद्यनेक-ग्रन्थानुसारेण स्वराः कियन्त इति प्रतिपादयन्ति भवन्तः, तत्र भवन्तः, तर्हि तत्रैवं ब्रूमः अहो व्याकरणाद्यनेकग्रन्थानुसाराणां चतुर्दशसंख्यत्वदर्शनात् चतुर्दश स्वराः। अत्र वादी वदति - नैवम्, अ इ उ ऋतृ समानाः [संज्ञाप्र० 1.] इत्यनेन सूत्रेण अकारादीनां पञ्चानामेव समानसंज्ञाविधानात् / तदनन्तरं ए ऐ ओ औ सध्यक्षराणि [संज्ञाप्र० 3.] ___ इत्यनेन सूत्रेण एकारादीनां चतुर्णां सन्ध्यक्षरसंज्ञाविधानात् / तत उभये स्वराः [ संज्ञाप्र० 4 ] इत्यनेन सूत्रेण अकारादीनां पञ्चानां चतुर्णां च एकारादीनां स्वरसंज्ञाविधानात् नवैव स्वराः, न चतुर्दश स्वराः इति श्रीमदनुभूतिस्वरूपाचार्यवचनात्। अत्र प्रतिवादी वादिनं प्रति वदतिकथं भो विद्वन् ! उभये स्वराः '[संज्ञाप्र० 4.] इति पञ्चवर्णात्मके सूत्रे एतवृत्तौ च 'अकारादयः .. पञ्च, चत्वार एकारादय उभये स्वरा उच्यन्ते।' इति / त्रयोविंशतिवर्णात्मिकायां साक्षात् नवेति पदस्य - अप्रतिपादनात् कथं नवस्वरा इति नियमः कर्तुं शक्यते? . . अत्र वादी वदति 'अकारादयः पञ्च चत्वार एकारादय' 4 इति वृत्तौ नियमस्यैव करणात् नवेति पदस्य ग्रहणे प्रयोजनाभावात्। अत्र 5 प्रतिवादी प्रति वदति नैवम्, नव स्वरा, इत्यङ्गीकरणे दधि आनय, गौरी अत्र, वधू आसनम् इत्यादिषु प्रयोगेषु 'इयं स्वरे' [ स्वरसन्धि 1] 'उ वम्' [ स्वरसन्धि 5] इत्यादिषु सूत्रेषु स्वरे इति पदेन नवानामेव स्वरेण 1. तत्र भवन्तः नास्ति ज जे. प्रतौ 2. व्याकरणेषु अकारादीना स्वराणां कै. प्रतौ। 3. कै. प्रतौ एकारादीनां चतुर्णां सन्ध्यक्षरसंज्ञभिधानात्. तत उभये स्वराः इत्यनेन सूत्रेण / 4. पञ्च चत्वार एकारादयः नास्ति कै. प्रतौ ५.'प्रति' नास्ति कै.। लेख संग्रह 247