________________ मन्यमानाः स्वराणां चतुर्दशसंख्यासत्तां विप्रतिपद्यमाना अतुच्छमात्सर्याद्यनणुगुण मत्कुणतल्पकल्पाः / संकल्पिताऽनल्पविकल्पाः प्रजल्पन्ति जल्पाकाः स्वराः कियन्त? इति वदन्तो वादिनः सानन्दं सादरं प्रष्टव्या भवन्ति / विशिष्टमतिभिः प्रतिवादिभिः। 1. कोऽयं स्वरो नाम? किं शब्दपर्यायः? 2. उत नासिकासमुद्भूतपर्यायः? 3. अथवा निषादादीनामवबोधकः? 4. किमुत उदात्तादीनां ज्ञापकः? 5. अहोस्वित् विवक्षितकार्यावबोधकाऽकारादि- संज्ञाप्रतिपादकः? इति विकल्पपञ्चतयी विषयपञ्चतयी च जनमनांसि क्षोभयन्तीति प्रतिभाति / 1. यदि आद्यस्तर्हि विविधजातीनां सुरनरतिर्यविहगादीनां विविधभाषाभाषकत्वात् सुस्वरदुःस्वरोच्चैर्नीचैरादिभेदभिन्नोऽप्यनेकधा शब्दपर्यायः स्वरोऽवधार्यः / इत्याद्यः॥ 1 // 2. अथ द्वितीयस्तर्हि सोऽपि त्रीन्द्रिय-पञ्चेन्द्रियजीवानामेव तत्सद्भावाद् द्विविधोऽपि। पुनः शोभनाऽशोभनभेदाभ्यां द्विविधो मनुष्याणामेव। चन्द्र १-सूर्यो 2- च्च 3- नीच 4- तिर्यगादि 5 - लक्षणैरनेकधा स्वरोदयशास्त्रात् नासिकास्वरोऽवगन्तव्यः। इति द्वितीयः॥२॥ 3. अथ चेत् तृतीयस्तर्हि सोऽपि निषाद 1- ऋषभ 2- गान्धार 3- षड्ज 4- मध्यम 5- धैवत 6- पञ्चम 7 इति लक्षणैः तन्त्रीकण्ठोद्भवैः सप्तविधः। यदमरः निषादर्षभगान्धार-षड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः। [ 1.7.1] इति सप्तविधोऽवसेयः। इति तृतीयः। 4. अथ चतुर्थश्चेत्तर्हि उदात्तानुदात्तस्वरितानां त्रैविध्यात् त्रिविधः। यदमर:उदात्ताद्यास्त्रयः स्वराः [ 1.6.4] इति, अकारादीनामेव एते / इति चतुर्थः॥ 4 // अथ पञ्चमो विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादकश्चेत् तर्हि सोऽपि द्विधा, ज्योति:शास्त्रे व्याकरणे च द्विधा दर्शनात्। तत्र ज्योति:शास्त्रानुसारेण षोडशप्रकारः, यदवदत् नरपति-दिनचर्यायां नरपतिदिनचर्याकार: मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया। इति। तथापि तन्मते कार्यकाले अ इ उ ए ओ पञ्चैवैते कार्यकारिणो ज्ञेयाः। यत् नरपतिदिनचर्याकार: 1. आहोस्वित् कै. 3. पाठो नास्ति जे प्रतौ। 2. स्वरोऽवधार्य: नास्ति जे प्रतौ। 4. एवं नास्ति कै. 246 लेख संग्रह